विद्वत्परिचयः 1

आद्याप्रसाद मिश्र

आचार्यप्रवराणां डाॅ. आद्याप्रसादमिश्राणां जन्म 1921 ईशवीयवर्षस्य मार्चमासस्य एकार्विंशतारिकायामभवत्।
श्रीमिश्रमहोदयाः 1942-43 ईशवीये सत्रे दत्तां बी.ए. परीक्षातिरक्तिं अन्याः सर्वाः परीक्षाः प्रथमश्रेण्यामुत्तीर्य प्रथमं स्थानं लब्धवन्तः।
     1950 ईशवीयवत्सरस्य दिसम्बरमासे इलाहाबादविश्वविद्यालयतः शाङ्करवेदान्ते डी.फिल. उपाधिं प्राप्तवन्तः।
आचार्य-मिश्रमहोदयाः सर्वप्रथमं गोरखपुरस्य सेण्ट एण्ड्रूज कालेजे एकवर्षावधिपर्यन्तं, सागरविश्वविद्यालये सार्धद्वयवर्षावधिपर्यन्तं
तथा इलाहाबादविश्वविद्यालये सार्धषोडशवषाविधिपर्यन्तं संस्कृतप्रवक्तृरूपेण अध्यापनकार्यं सम्पादितवन्तः। तदन्तरमेव इलाहाबादविश्वविद्यालयस्य संस्कृत-विभागे आचार्यध्यक्षरूपेण कार्यं कृतवन्तः। आचार्यमिश्राः 1975 ईशवीयवर्षतः 1978 यावत् इलाहाबाद-विश्वविद्यालये कलासंकायाध्यक्षाः एवं 1978 तः 1979 यावत् तत्रैव प्रतिकुलपतयः तथा 1978 तः 1980 यावत् इलाहाबाद-विश्वविद्यालयस्य कुलपतिपद॰चाल´कुः।
आचार्यमिश्रमहोदयैः शाङ्रवेदान्तविषये एकः आङ्लभाषायां, साङ्ख्यशास्त्रे हिन्द्यां त्रयः तथा विष्णुसहस्रनामस्तोत्रमभिलक्ष्य विष्णुसहस्रनामस्तोत्रपर्यालोचनमिति नामकः एकः शोधपरकग्रन्थः प्रणीताः एतदतिरिक्तं छात्राणां कृते उपादेयाः उपनिषत्-तर्क-व्याकरणानां षड्ग्रन्थाः तथा उत्तमकाव्यांशानां संग्रहत्मिका भूमिका हिन्दी-अनुवाद-व्याकरण-टिप्पणियुक्ताः चत्वारः ग्रन्थाः लिखिताः सन्ति। एवमेव संस्कृत-निबन्धनामकः ग्रन्थः यः खलु उच्चतमपरीक्षायै सर्वथा-उपादेयः षष्ठिनिबन्ध-समन्वितः वर्तते, तथा उच्चस्तरीयेषु शोधपत्राणाम् अभिनन्दनग्रन्थानां अखिलभारतीयविद्वद्गोष्ठीनां लेखसंग्रहेषु प´्चाशदधिकाः लेखाः प्रकाशिताः सन्ति।
आचार्यमिश्रमहोदयानां शोधनिर्देशने चत्वार्रिंंशदनुसन्धित्सवः डी.फिल् तथा एकः डी.लिट् इत्युपाधिं प्राप्तवान्।
आचार्यमिश्रमहोदयाः पूनानगरे 1992 अखिलभारतीये प्राच्यविद्यासम्मेलने ‘‘प्लैटिनम् जुबली’’ अधिवेशने धर्म एवं दर्शन खण्डस्याध्यक्षतां कृतवन्तः एवं भवन्तः 1984 ईशवीये वर्षे रोहतकनगरे तथा 1996 कोलकाताधिवेशने अखिलभारतीयविद्या- सम्मेलनस्यैवोपाध्यक्षपदाय चयिताः। यू.जी.सी. द्वारा विभिन्नवर्षेषु तिसृणां समितीनां सम्मानितः सदस्यः एवमेव बहूनां संस्थानां, समितीना॰च अध्यक्षपदे, सदस्यपदे च कार्यं सम्पादितवन्तः।

आचार्यमिश्रमहोदयाः केन्द्रीयशिक्षामन्त्रालयेन उच्चशोधकार्यार्थमारब्धायां अलङ्कारचूड़ामणियोजनयां 1982 वर्षे वृत्तिं प्राप्तवन्तः या खलु 1984 वर्षे समाप्तिं याता। एभिः उत्तर प्रदेश-संस्कृतसंस्थानस्य 1985 वर्षस्य विशिष्ट पुरस्कारः अथ च 2004 वर्षस्य वाल्मीकि पुरस्कारः प्राप्ता। 1982 वर्षे भारतवर्षय महामहिमराष्ट्रपति द्वारा सम्मान-प्रमाण-पत्रमपि प्राप्तवन्तः।

वशिष्ठ त्रिपाठी    

            न्यायकोविदां विद्वत्तल्लजानमाचार्यवशिष्ठत्रिपाठिमहोदयानां जन्म उत्तरप्रदेशस्थदेवरियाजनपदस्य रामपुरशुक्लनाम्नि ग्रामे
स्व. पं. रामजीत्रिपाठिनः पुत्ररूपेण 15-10-1940 वर्षेऽभवत्। प्रारम्भिकी शिक्षा ग्रामे एव स´्जाता। अनन्तरं दीक्षागुरुणां श्रीरङ्गाचार्यमहाशयानामन्तेवासित्वे मध्यमाकक्षापर्यन्तं व्याकरणन्यायादिशास्त्राणामध्ययनं विहितम्।
ततः इमे नव्यशास्त्रस्याध्ययनाय काश्यामागत्य गौतमकल्पानां सर्वतन्त्रस्वतन्त्राणामाचार्यबदरीनाथशुक्लमहोदयानां, सर्वशास्त्रपारङ्गतानामाचार्य श्रीरामपाण्डेयानां, मिथिलामिहिराणाम् पं. रुद्रधरझामहोदयानां तत्रस्थानामेव नैयायिकधुरीणानां
पं. किशोरीझामहोदयानां सान्निध्ये साङ्गोपाङ्न्यायादिशास्त्राणि समधीत्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः नव्यन्यायाचार्योपाधिं स्वर्णपदकं तथा च काशीहिन्दूविश्वविद्यालयात् न्यायवैशेषिकशास्त्राचार्योपाधिं च प्राप्तवन्तः।
तदनन्तरमाचार्यत्रिपाठिनः वाराणस्यामेव 1-7-1961 तः 1966 यावत् आदर्शश्रीसाङ्-गसंस्कृतब्रह्माविद्यामहाविद्यालये न्यायप्राध्यापकरूपेण 20-7-1966 तः 31-5-1970 यावत् प्राच्यविधाद्यार्मविज्ञानसङ्काये काशीहिन्दूविश्वविद्यालये-न्यायप्रवक्तृरूपेण 1-7-1970 तः 2-2-1979 यावत् गौयनकासंस्कृतमहाविद्यालये दर्शनविभागाध्यक्षरूपेण न्यायशास्त्रस्याध्यापनं कृतवन्तः।
ततः परं पुनः काश्यामेव सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य न्यायवैशेषिकविभागे आचार्यत्रिपाठिनः 6-11-1979 तिथौ न्यायशास्त्रस्य प्राध्यापका अभूवन्। तत्रैव स्थित्वा इमे शताधिकान् सुयोग्यान् शिष्यान् पाठयित्वा 1-9-1989 वर्षे आचार्यत्रिपाठिनः पदवाक्यप्रमाणपारावारीणानां स्वगुरुणामाचार्यबदरीनाथशुक्लमहाशयानां सारस्वतरसास्ववादनचरणानामाचार्य श्रीरामपाण्डेयानामधिष्ठितं न्यायवैशेषिकविभागस्य विभागाध्यक्षपद´्चालभन्त। इत एव एतेषामध्यापनकौशलं वैदुष्य॰च समग्रेऽपि भारते प्रासरत्। 30-6-2001 वर्षे विश्वविद्यालयसेवातः सेवानिवृत्तिं प्राप्य, काष्र्णीविद्यापीठस्य स्थापना एभिः कृता। अत्रापि छात्रेषु शास्त्रार्थपाटवकलामादधानाः इमे प्रतिदिनं द्वादशहोरापर्यन्तं छात्राणामध्यापनं कुर्वन्ति। एतेषां छात्राः न केवलं शास्त्रि-आचार्यकक्षायाः अपितु विश्वविद्यालयस्य आचार्य (प्रोफेसर) प्रभृतयो भवन्ति।
आचार्यत्रिपाठिनः मार्गनिर्देशने दशसंख्याकाः छात्राः विद्यावारिधि (पी.एच.डी.) इत्युपाधिं प्राप्तवन्तः। शैक्षिकं प्राशासनिकं दायित्व॰चापि एभिः बहुधानिभालितम्। विश्वविद्यालये विभागाध्यक्षपदं धारयन्तः इमे मध्ये मध्ये दर्शनसंकायाध्यक्षापदं, विनयाधिकारी (चीफ प्राक्टर) पदं, प्रतिकुलपतिपदं, कार्यकारिकुलपतिपद॰चालंकृतवन्तः। एभिः उत्तराखण्ड-संस्कृत-अकादम्याः सर्वोच्चपुरस्कारः उत्तरप्रदेशसंस्कृतसंस्थानस्य 2004 वर्षस्य वाल्मीकिपुरस्कारः प्राप्तः।
आचार्यत्रिपाठिनः प्रकाशनमपि उत्कृष्टममेवास्ति। नव्यन्यायशास्त्रस्य दुरुहान् ग्रन्थानालक्ष्य एते शब्दशक्तिप्रकाशिकायाः, अनुमितिगदाधर्याः, पक्षतायाः शक्तिवादस्य सत्प्रतिपक्षस्य, उपाधिप्रकरणस्य च यथाविधि हिन्दीभाषया संस्कृतभाषया च टीकानुवाद॰च कृतवन्तः। तत्र केचन प्रकाशिताः। केच मुद्रणाधीनाः सन्ति।

किशोरनाथ झा               

प्रशस्तनैयायिकस्य आचार्य-किशोरनाथ झा महोदयस्य जन्म 10 जून 1940 तमे ईसवीये वर्षे बिहारप्रान्तस्य मधुबनी जनपदे बिट्ठो ग्रामेऽभवत्। एतेषां पिता पण्डित कृष्णमाधव झा नव्यन्यायशास्त्रस्य विद्वांसः आसन्। प्रारम्भिकी शिक्षा स्वग्रामे स्थिते लक्ष्मीवतीसंस्कृतविद्यालये पण्डितचन्द्रमाधवझा, पण्डित मधुसूदन झा एव´्च स्वपितुः अन्तेवासित्वे समर्जिता।
मिथिलासंस्कृतशोधसंस्थान, दरभंगातः न्यायवैशेषिकविषये एम.ए.कृत्वा तत एव पी-एच.डी., विद्यावाचस्पति कृता। तत्रैतेषां गुरुवय्र्याः आसन् प्राचीनन्यायविशारदाः प्रो. अनन्तलाल ठाकुरमहाभागाः, श्रीशोभाकान्त जयदेव झा इत्यादयः।
एते मधुबनीजनपदस्थिते एम.एल.एस. डिग्री कालेजे 1961 तः1962 पर्यन्तं अस्थायीरूपेण अध्यापनं विहितवन्तः ततः रांची डिग्री महाविद्यालये, रांची नगरे, डी.एस.डिग्री महाविद्यालये, कटिहारनगरे अध्यापनं विधाय 1970 तमे वर्षे गड्गनाथझाकेन्द्रीयसंस्कृतविद्यापीठे ‘‘मैन्युस्क्रिप्ट- पण्डित’’ पदं धारयन् क्रमशः 1971 तः 1980 पर्यन्तम् ‘‘अनुसन्धान अधिकारीति’’ पदं निव्र्यूढ़वन्तः। अत्रैव विद्यापीठे प्रवाचकपदमलंकृत्य 2002तमे वर्षे सेवानिवृत्तः संजातः।
आचार्य झा महाभागानां मार्गनिर्देशने 23 शोधछात्राः विद्यावारिधिः इत्युपाधिं प्राप्य विभिन्नशैक्षणिकसंस्थाने कार्यरताः सन्ति। विविधपत्रपत्रिकाषु एतैः 125 शोधनिबन्धाः लिखिताः। अखिलभारतीयप्राच्यविद्यासम्मेलनस्याधिवेशने अखिलभारतीबौद्धदर्शनपरिषदि वाराणस्यां सारनाथे गोरखपुरे चायोजिते विविधकार्यशालासु भागं गृहीत्वा शोधपत्रवाचनं सत्रसंचालन´्च कृतवन्तः। 
भारतीयदर्शनसाहित्यसंस्कृतीनां सारस्वतसेवायामाजीवनं समर्पितः डाॅ. किशोरनाथझा एकविंशतिमौलिकग्रन्थानां प्रणेता नवमितग्रन्थानामनुवादकः द्वात्रिंशत्प्रतिष्ठितग्रन्थानां सम्पादकश्च विद्यन्ते। येषु ‘‘न्यायशास्त्रीय ईश्वरवादः’’ ‘‘न्यायदृष्टया आत्मवादानुचिन्तनम्’’ मौलिकौ, महामहोपाध्याय-फणिभूषणतर्कवागीशकृत बंगभाषामय्या न्यायभाष्यव्याख्याया हिन्द्यामनुवादः महाकालसंहिता, न्यायतत्वालोकः - न्यायसिद्धान्तलक्षणसुबोधनी, तन्त्रवार्तिकव्याख्या अजिता, न्यायमंजरी, तार्किकरक्षा, पंचखण्डेषु विभक्तः उद्यनग्रन्थावली प्रभृतिग्रन्थानां सम्पादनं च विशेषेण उल्लेखनीयाः विद्यन्ते।
गंगानाथझाकेन्द्रीयसंस्कृतविद्यापीठम् इलाहाबादः भवतां कार्यस्थली आसीत्। उत्तरप्रदेश- संस्कृतसंस्थानेन भवतां सप्तमितपुस्तकानि पुरस्कृतानि। राष्ट्रपतिसम्मानः, पूना नगरतः नानासाहबपेशवापुरस्कारः, दिल्लीतः राष्ट्रियसंस्कृतसंस्थानसम्मानः, पाटलिपुत्रतश्चेतना सम्मानश्च भवन्तं सभ्राजयन् प्राचीनपाण्डुलिपीनामध्ययनस्य तासां सामीक्षित- सम्पादनस्य च योग्यता भवन्तं दुलर्भकोटिकेषु सारस्वतसाधकेषु परिगणयति।

स्वामि रामभद्राचार्य     

            डाॅ. जगद्गुरुरामानन्दाचार्यः स्वामिरामभद्राचार्यः इति बहुश्रुतः डाॅ. गिरिधरलालमिश्रः 14 जनवरी 1950 तमे ईसवीये वर्षे (मकरसड्क्रान्तेः पावनदिने) जौनपुरस्य शाण्डीखुर्द इत्याख्ये ग्रामे जन्मलब्धवान्। एम.ए., आचार्य (नव्यव्याकरणम्) पी-एच.डी, डी.लिट-इत्युपाधिभिः विभूषितः स्वामिमहोदयः संस्कृतम् आँग्लम् हिन्दी चेति भाषामतिरिच्य फ्रे´्च इति विदेशिभाषां प्रायेण सर्वा अपि भारतीयदेशजभाषाश्च सम्यग्वेत्तिव्यवहारे चानयति।
रामानन्दसम्प्रदायसम्बद्धस्य चित्रकूटस्थितस्य तुलसीविद्यापीठस्य जगद्गुरुरामानन्दाचार्य- विकलाड्.गविश्वविद्यालयस्य (चित्रकूटस्थितस्य) आजीवनं कुलाधिपतिः स्वामी रामभद्राचार्यः छात्रजीवनादेव लेखनमारब्धवान्। 1975 ईस्वीयेवर्षे आज़ादचन्द्रशेखरचरितम्इति खण्डकाव्यं सम्पूर्णानन्दसम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः प्रकाश्यमानायां प्राची इत्याख्यायां पत्रिकायां प्रकाशितम्।
आर्षवाङ्यमधिकृत्य मौलिकचिन्तनपराणां भाष्याणां दीर्घा सूची वर्तते, यत्र एकादशोपनिषत्सु ब्रह्मसूत्रे श्रीमद्भगवद्गीताया´्च राघवकृपाभाष्मुल्लेखनीयम्। मौलिकरचनासु कुब्जापत्रमिति पत्रकाव्यम् लघुरघुवरमिति चित्रकाव्यं सरयूलहरी इति स्तोत्रकाव्यं राघवाभ्युदययिति नाट्यकाव्यमित्यादीन् 46 संस्कृतभाषयाविरचितान् ग्रन्थान् हिन्दीभाषया लिखितान् नवग्रन्थान् नवसमीक्षाग्रन्थान् सप्तप्रवचनाधृतान् ग्रन्थान् द्वौ सम्पादितौ ग्रन्थौ चेति अन्यांश्च सम्मेल्य प्रायेण अशीति ग्रन्थान् विरच्य स्वामीरामभद्राचार्यः संस्कृतवाङ्मयं समर्द्धितवान्।
स्वामिमहोदयः आचार्यपरीक्षायां (1976) सप्त स्वर्णपदकान् अखिलभारतीयसंस्कृतवादविवादप्रतियोगितायां (1975) चांसलर स्वर्णपदकम् अखिलभारतीयशास्त्रार्थे (1975) प्रथमपुरस्कारं अखिलभारतीयविविधसंस्कृतप्रतियोगिताषु (1974) चैम्पियन वैजयन्ती शास्त्रीपरीक्षायां च स्वर्णपदकं लब्ध्वा कीर्तिमानं स्थापितवान्।
कारकभावकप्रतिभयोः अप्रतिमादर्शः स्वामिरामभद्राचार्यः शारीरिक-अक्षमेभ्यः उच्चशिक्षाकेन्द्रतया चित्रकूटे विकलाड्.गविश्वविद्यालयं संस्थाप्य संस्कृतसाधनायाः उदारचेतनाया मूर्तरुपं दर्शितवान्। 

भागीरथ प्रसाद त्रिपाठी                

 ‘डाॅ. वागीश शास्त्रीइत्युनाम्ना प्रशितयशसां बहुभाषाविदां वैयाकरणानां पण्डितप्रवराणां डाॅ. भागीरथप्रसादत्रिपाठिनामन्यतमं स्थानं संस्कृतक्षेत्रे विभ्राजते। परम्परादृशा शास्त्रालोचने काश्यामेभिव्र्याकरणमधीतं शुकदेवझामहोदयेभ्यो रघुनाथशर्ममहोदयेभ्यश्च।  न्यायशास्त्रं समधीतं ढुण्ढिराजशास्त्रिभ्य उग्रानन्दझामहोदयेभ्यश्च। जर्मनप्रभृति-भाषाणामाधुनिकगवेषणाविधेज्ञानं च समर्जितं पण्डितक्षेत्रेशचन्द्रचट्टोपाध्यायमहाभागेभ्यः। इमे पाणिनीयधातूनां स्वरूपस्य अर्थप्रसारस्य, लोकप्रसारस्यच विषये गंभीरचिन्तका वैयाकरणा वर्तन्ते। एते मध्यप्रदेशस्यसागरमण्डलान्तर्गते विलइयाइत्यभिधे ग्रामे 1991 तमे वैक्रमाब्दे आषाढ़शुक्लत्रयोदश्यां जातेन स्वजनुषा भुवं समभूषयन्। पितृचरणानां पण्डितयमुनाप्रसादत्रिपाठिनामायुर्वेदतन्त्रज्योतिषवैदुप्याय प्रसिद्धिरासीत्।
सर्वोच्च कालिदास पुरस्कार 1966-67 डिस्टिंविश्ड सर्विस टु कम्युनिटि आॅनरेरी सर्टिफिकेट आॅव मेरिट कैब्रिज, इंग्लैंड 1976, श्री काशीपण्डितपरिषद् द्वारा महामहोपाध्यायसम्मान 1982, षड्वारम् उ.प्र. शासनेन, उत्तरप्रदेश संस्कृत संस्थान द्वारा च पुरस्कारा अखिलभारतीयवेदवेदाङ्गपुरस्कारो राजस्थान संस्कृत अकादमी द्वारा 1993-94, अनुसंधान पुरस्कार, भीमसेनपाटीदातव्यन्यास उत्कल द्वारा 1995 स्वामी विष्णुतीर्थ सम्मान पुरस्कार, 2002, राष्ट्रपति सम्मान (2013), उत्तर प्रदेशस्य सर्वोच्च यशभारती सम्मान (2014) प्रमुखाः सन्ति। 70 वारम् इंटरनेशनल हूज हू जीवनी कोशेस्य जीवनीप्रकाशनम् जातम्।
1954 तमात् ख्रीस्ताब्दादारभ्य वागीशमहोदयानां संस्कृतरचना-प्रकाशनमारब्धम्। एभिः सर्जनात्मके गवेषणात्मकलेखनक्षेत्रे चानतिसाधरणी समर्जिता कीर्तिः। टीकमणि-संस्कृतकालेजे च प॰चवर्षाणि (1959-64) अध्यापनोत्तर त्रिंशद्वषाणि यावत् सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये समर्पिता स्वकीया सेवा। तत्र गवेषणालयनिदेशकपदमलङ्कुर्वाणैरनुसन्धानप्रधानां सारस्वती सुषमाइत्याख्या त्रैमासिकी संस्कृतपत्रिका वर्षाणां सप्तविंशति यावत् सम्पादिता, सम्पादिताश्च विस्तृतभूमिकासमलङ्कृता विश्वप्रसिद्धा अनेके ग्रन्थमाला। साम्प्रतं सम्पाद्यते देवराजकृतम् अनिरुद्धचम्पूकाव्यम्। प्रवर्तिता च भारतीयसंस्कृतेर्विश्वकोशानां पुराणानां विषयानुक्रमकोशयोजना। 
एभिव्र्याकरणे प्राचीनेतिहासे भाषाशास्त्रे च तावद् बहूनि नूतनमतानि स्थापितानि सन्ति। वाग्योग (निमानिक) विधितया प्रसिद्धमभिनवं शीघ्रबोधकरं व्याकरणं प्रणीतम्।
एषामन्ताराष्ट्रियख्यातिप्राप्ता बहुविधानि व्याकरणानि इण्डोयूरोपीया भाषाश्च समाश्रित्य तुलनात्मकविधिना विरचिता एतेषां।
1. पाणिनीयधातुपाठसमीक्षा 1965,  2. तद्धितान्ताः केचन शब्दाः 1967 3. धात्वर्थविज्ञानम् प्रभृतयोग्रन्थाः सन्ति। अल्पीसा कालेन संस्कृतप्रशिक्षणाय विरचितं वाग्योग (निमानिक) विधिना नैसर्गिकं व्याकरणाम्। एतदाश्रित्य हिन्द्यां प्रकाशितं संस्कृत भाषा सीखने की सरल और वैज्ञानिक विधि’ (1992) इति पुस्तकम्। काश्यां लक्ष्मणपुर्यां बेंग्लूरनगर्यां राजस्थानस्य लाडनूनगरे, पेरिसनगर्यां शार्मयदेशानां स्विट्रजलैंडदेशानां चानेकेषु नगरेषु विधिमेनमाश्रित्य बहुनि शिविराणि योजितान्यभूवन्। एभिः प्रशिक्षिता बहवः शिष्या सम्प्रति विदेशेषु प्रोफेसरपदमधिरुढ़ा अध्यापन्ति।

अमरनाथ पाण्डेय                

प्रो. अमरनाथपाण्डेयस्य जन्म सप्तत्रिंशदधिकैकोनविंशतिशततमे ईसवीये वर्षे अक्टूबरमासस्य षष्ठदिनाङ्के (6 अक्टूबर 1937) इलाहाबादजनपदस्य अनुवाँग्रामेऽभूत्। उच्चशिक्षा इलाहाबादविश्वविद्यालये सम्पन्ना। तस्माद् बी.ए., एम.ए., डी.फिल् इति चोपाधय उपलब्धाः। हाईस्कूलपरीक्षात आरभ्य एम.ए. परीक्षां यावत् सर्वाः परीक्षाः प्रथमश्रेण्यामुत्तीर्णः। अनेकाश्छात्रवृत्तयः पुरस्काराश्चाधिगताः। षष्ट्यधिकैकोनविंशतिशततमे ईसवीये वर्षे (1960) काशीविद्यापीठे वाराणस्यां संस्कृतप्राध्यापकपदे तस्य नियुक्तिरभवत्। तत्रैव रीडरपदेऽनन्तरमल्पीयसि वयसि प्रोफेसरपदे नियुक्तिरभूत। महात्मा-गांधी-काशीविद्यापीठे मुख्यगृहपति-अवैतनिकपुस्तकालयाध्यक्ष- मानविकी-सङ्कायाध्यक्ष-छात्रकल्याणसङ्कायाध्यक्षपदैरपि प्रशासनकार्यं सम्पादितवान्। सप्तत्रिंशद्वर्षाणि यावत् संस्कृतविभागाध्यक्ष (1960-1997) सन्। अष्टानवत्यधिकैकोनविंशातिशततमे ईसवीये वर्षे (1998) सेवानिवृत्तः।
प्रो. पाण्डेयस्य निर्देशने एकोनचत्वारिंशच्छात्राः पी-एच.डी. इत्युपाधिमेकश्च डी.लिट्. इत्युपाधिम् अलभन्त।
प्रो. पाण्डेयः साहित्यव्याकरणवेदभारतीयदर्शनानां प्रतिष्ठितो विद्वान् अस्ति। स गुरुकुलकांगड़ी-विश्वविद्यालये त्रिपुराविश्वविद्यालये इन्दिराकलासंगीतविद्यालये चाप्यभ्यागताचार्यरूपेणाध्यापनकार्यमकरोत्।
प्रो. पाण्डेय महामहिमराष्ट्रपतिमहोदयेन, सर्टिफिकेट आँव् आनर्इति सम्मानेन पुरस्कृतः। उत्तर प्रदेश संस्कृत संस्थानेन विशिष्टपुरस्कारःप्रदत्तः। अखिलभारतीयपण्डितमहापरिषद्-काशीविद्वत्परिषद्-सम्पूर्णानन्दसंस्कृतविश्वविद्यालय-भारतधर्म- महामण्डल-वाराणसी-कामेश्वरसिंहसंस्कृतविश्वविद्यालय दरभंगा-अखिलभारतीविद्वानपरिषव्संस्थाभिः सम्मानितो तथान्यैश्चः विद्यते।
प्रो. पाण्डेयस्य अष्टादशपुस्तकानि प्रकाशितानि सन्ति येषु बाणभट्ट का साहित्यिक अनुशीलन, बाणभट्ट का आदान-प्रदान, शब्दविमर्श-संस्कृतकविसमीक्षा, उपसर्गवर्ग दशरूपकदीपिका-वाररुचसङ्ग्रह-सौन्दर्यवल्ली- मङ्गल्या-आकाड्क्षा- काव्यसिद्धान्तकारिकादि-पुरस्कृतानि सन्ति, पुस्तकद्वय॰च उत्तर-प्रदेश-संस्कृत-संस्थानेन। सौन्दर्यवल्लीविषये पी-एच.डी. इत्युपाधये शोधकार्यं सम्पादितमस्ति। स भास्वतीति संस्कृतशोध-पत्रिकायाः सम्पादनं व्यदधात्। तस्य प॰चाशदधिकद्विशताधिका लेखाः पत्रपत्रिकास्वभिनन्दनग्रन्थेषु च प्रकाशितः सन्ति।
प्रो. पाण्डेयेन विविधगोष्ठीष्वन्ताराष्ट्रियसम्मेलनेषु शोधपत्राणि पठितान्यध्यक्षता च निव्र्यूढा।  सोऽनेकसंस्थानां सदस्यः। तेन विश्वसंस्कृतसम्मेलनस्य प॰चमाधिवेशनस्य अध्यक्षता कृता। तेन मलयेशियादेशे आस्ट्रेलियादेशे च भारतीयदर्शन-संस्कृतिविषये व्याख्यानानि दत्तानि।
आचार्यपाण्डेयः उत्तरप्रदेशस्य तदानीन्तराज्यपाल डा.एम. चन्नरेड्डीमहोदयस्यानुरोधेन नैमिषारण्ये पुराणसंस्थानस्य स्थापनायै
स्वरूपनिधारणादिविषये परामर्शः दत्तवान्। तेजपुरविश्वविद्यालयेन प्रो. पाण्डेयस्य परामशेन विश्वविद्यालयस्यादर्शवाक्यं निर्धारितम्।

प्रो. पाण्डेयः देशस्य अशीत्यधिकविश्वविद्यालयानां संस्थाना॰च शिक्षासम्बद्धकार्येषु योगदानं कृतवान्। सः कविसमीक्षाकलेखकमौलिकचिन्तकरूपेण प्रतिष्ठितोऽस्ति।

ओम्प्रकाश पाण्डेयः   

विविधशास्त्रपरिशीलनपारावरीणः  सुकवयो वेद-वेदाङ्गविशादराः लब्धप्रतिष्ठा आचार्यवर्याः प्रो. ओमप्रकाशपाण्डेयाः प्रख्यातसंस्कृतविदुषामन्वये 1-1-1948 तम वर्षे बाराबंकी उ.प्र. जनपदान्तर्गते बबुरीगाँवनाम्निग्रामे जनिं लब्ध्वा पितृपादानां वैयाकरणमूर्धन्यानामाचार्य श्रीकेशवरामपाण्डेयानां सान्निध्य एव प्रथमापर्यन्तं व्याकरणादिविषयाणामध्ययनं चक्रुः। तेषां जननी श्रीमती कृष्णा कुमारीपाण्डेयापि संस्कृतज्ञा आसीत्। अनन्तरं प्रो. पाण्डेयानां पारम्परिकी संस्कृतशिक्षा बाराबंकीस्थ एव सनातनधर्मसंस्कृतमहाविद्यालये सम्पन्ना। अनन्तरं लक्ष्मणपुरीये विश्वविद्यालये तैः आचार्य आनन्दझा-
डाँ. मातृदत्तत्रिवेदिप्रभृतिविदुषामन्तेवासितया पी-एच.डी. पर्यन्ता उपाधयः समर्जिताः। तेषांम शोधप्रबन्धः परीक्षकप्रवरेणनीदरलैण्डदेशस्य प्रख्यातमनीषिभिः प्रो. जे.सी. हीस्टरमैन महाभागैः सुप्रशंसितः। शोधग्रन्थोऽयं डाँ. चिन्तामणिगणेश काशीकरप्रभृतिरपि वेदज्ञैरभिस्तुतः। सामवेदीयब्राह्मणानां परिशीलनम्इति विषयमधिकृत्य तैः प्रणीतं शोधप्रबन्धं परीक्ष्य कर्णपुरविश्वविद्यालयस्तान् साहित्यवारिधि’ (डी.लिट् इत्युपाधिनाऽलङ्कृतवान्। अस्य शोधप्रबन्धस्य भूयसी संस्तुतिः प्रो. को.अ.सु. अय्यर-आचार्यबलदेवोपाध्याय-प्रो. एस.ए. डांगे प्रभृतिरपि विहिता।
प्रो. पाण्डेयवर्याः कर्णपुरविश्वविद्यालयान्तर्गते हरदोईस्थे सी.एस.एन.पी.जी. महाविद्यालये चतुर्दशवर्षाणि यावत् स्नातकोत्तरकक्षासु अध्यापनं कुर्वन्तः शोध-निर्देशनमपि कृतवन्तः। अनन्तरं लक्ष्मणपुरविश्वविद्यालये रीडर-प्रोफेसर विभागाध्यक्षादिपदेषु वैदिक-संस्कृत-वाङ्मयं विद्योतयन्तः शोधकार्य चानुतिष्ठवन्तः। 23 वर्षाणि ते शास्त्रसपर्यामन्वतिष्ठन् अस्मिन्नेवान्तराले ते वर्षत्रयं (10.10.1997 - 10.10.2000 ई. पर्यन्तं) फ्रान्सदेशस्य पेरिस सोरबोन नूवेल विश्वविद्यालये विजिटिंग प्रोफेसररूपेण संस्कृताध्यापनमकुर्वन्। दि. 14-12-2001 तः दि. 3-12-2005 पर्यन्तम उज्जयिन्यां भारतसर्वकारेण महर्षि-सान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानस्य सदस्यसचिवत्वेन नियुक्ताः प्रो. पाण्डेयाः निखिलेऽपिभारते वेदविद्यायाः प्रचारेषु संलग्ना बभूवुः। वर्षद्वयं ते राष्ट्रियसंस्कृतसंस्थानस्य लक्ष्मणपुरस्थे परिसरे शास्त्रचूड़ामणिरुपेण तत्रत्यशोधच्छायाणां मार्गदर्शनमप्यकुर्वन्।
देशे विदेशे च सुविदितोऽयं संस्कृतमनीषी 2003 ई. वर्षे सामवेदस्य विशिष्टो विद्वान्इतिकृत्वा भारतीयविद्याभवन, बंगलूरुनाम्न्या संस्थया मुम्बय्यां वेदरत्नपुरस्कारेण (एकलक्षरुप्यकैश्च) सभाजितः। 2005 तमे वर्षे सरस्वतीवेदवेदाङ्गपुरस्काराभ्यां सम्मानितः। 2008 तमे वर्षे राष्ट्रियसाहित्य अकादम्या (नवदेहलीस्थया) स्वपुरस्कारेणायं विभूषितः। उ.प्र. संस्कृतसंस्थानाप्ययं विपश्चिद्वरो विविध-विशेष विशिष्टसंज्ञकै पुरस्कारैः भूयोभूयः सभाजितः।
अ.भा. प्राच्यविद्यासम्मेलनस्य जादवपुरविश्वविद्यालयाधिवेशने प्रो. पाण्डेयो वेदविभागस्याध्यक्षपदं समल॰चकार। अस्यैव सम्मेलनस्य बड़ौदा अधिवेशनेऽयं धर्म-दर्शनविभागस्याध्यक्षो बभूव। बहुवारमयं अ.भा. प्रा. वि. सम्मेलनस्यैव कार्यसमितौ सक्रियसदस्यत्वेन निर्वाचितः। तिरुपतिस्थ राष्ट्रियसंस्कृतविद्यापीठस्य शिष्टपरिषदोऽयं सदस्यत्वेन भारत-सर्वकारेण नियुक्तः। वल्र्ड-संस्कृतकांफ्रेन्सइत्यस्य वाराणसी-बंगलूरु-टयूरिन (इटली) अधिवेशनेष्वयं शोधपत्राणि प्रस्तुतानि। फ्रान्स-हालैण्ड-जर्मनी-नीदरलैण्डप्रभृतियूरोपीयदेशेषु प्रो. पाण्डेयेन भूयांसि व्याख्यानानि प्रदत्तानि। निखिलेऽपि भारते पुनश्चर्या-पाठ्यक्रमेषु समाहूतोऽयं भूयांसि व्याख्यानानि प्रददौ। नैकेषां विश्वविद्यालयानां विद्यापरिषदि, शोधोपाधिसमितौ पाठ्यक्रमसमितौ च बाह्यसदस्यत्वेनायं दायित्वानि समुद्ववाह।
ग्रन्थाः-प्रो. पाण्डेयेन प्रणीतेषु शोध-समीक्षात्मकग्रन्थेषु वैदिकखिलसूक्त-मीमांसा’ ‘वैदिक साहित्यस्य संस्कृतेश्च स्वरुपम्, ‘वैदिक संस्कृतिर्मूलतत्त्वानि’, ‘अमृत-मन्थनम्’ ‘गोपथब्राह्मणगतानि संस्कृति-समाज-धर्म-दर्शनानि’, ‘विश्ववारा संस्कृतिः’, सामवेदीयं साहित्यं, कला, धर्मदर्शनं च’, ‘आम्बिकादत्तव्यासश्चेत्यादयो प्रामुख्यं भजन्ते। अनूदितसम्पादितग्रन्थेषु वरदराजस्तवः’ ‘पारस्करगृह्îसूत्रं (हिन्दी व्याख्या सहितं), सांख्यतत्त्वकौमुदी’ (हिन्दी व्याख्या सहिता), ‘सदुक्तिकर्णामृतम्’ (हिन्दी व्याख्या सहितम्), संस्कृतवाङ्मयस्य इतिहास-ग्रन्थमालायां वेदाङ्गखण्डम्’ ‘दशकुमारचरितम्’ (हिन्दीव्याख्यासहितं पूर्वपीठिकामात्रम्), ‘नीतिशतकम्’ (हिन्दी व्याख्यायुतम्), ‘सुभाषितरत्नभाण्डागारम्’ (हिन्दी व्याख्यासहितम्), ‘देवलस्मृतिः’ (हिन्दीव्याख्यासहिता), ‘मैत्रायणी उपनिषद्’ (हिन्दी व्याख्यासहिता), ‘वेदकालीना प्रौद्योगिकी’, ‘वेदकालीन पुरातत्त्वम्’ ‘वैदिकी यज्ञसंस्था वेदविज्ञान॰च’, इत्यादयो मुख्याः सन्ति।
      मौलिकसंस्कृतकृतिषु वेदनावल्लकी’ (गीत-संग्रहः) स्वातन्×यगाथा’ (खण्डकाव्यम्), ‘जीवनपर्व’ (नाटकम्), ‘अभागिनी’ (लध्वीनाटिका), ‘निर्याति नैव स्मृतिः’ (खण्डकाव्यम्) रसप्रियापेेरिसराजधानी’ (महाकाव्यम्), ‘विपल्लवोऽयं जीवनवृक्षः’ (खण्डकाव्यम्), ‘न केलिनारी सुगृहं हिनस्ति’ (खण्डकाव्यम्) इत्याद्याः मुख्याः सन्ति। 
प्रो. पाण्डेयेन प्राच्यविद्याविषयेषु संस्कृते, हिन्द्याम्, आङ्ग्लभाषायां, फ्रेंचभाषाया॰च विरचितानि प्रायेण त्रीणि शतानि शोधपत्राणि, निबन्धाः, विविधलेखाश्च देशस्य विदेशस्य च प्रमुखशोधपत्रिकासु, मासिक-दैनिकसाप्ताहिक पत्रेषु च समये-समये प्रकाशिताः प्रकाश्यन्ते च।

नारायणशास्त्री काङ्करः       

महामहिम्नोपाध्यायस्य आचार्य-श्रीनवलकिशोर काङ्कर-महानुभावस्य ज्येष्ठात्मजः राष्ट्रपति-सम्मानितः आचार्यः डाँ. नारायणशास्त्री काङ्करः जयपुरे 30-7-1930 दिनांके लब्धजन्मा आचार्य-पी.एच.डी.-डी.लिट्., शिक्षोपाधिधारी राष्ट्रियायुर्वेद-संस्थाने संस्कृत-उपाचार्य पदतः सेवा-निवृत्तेः पश्चात् स्वनिवासे समुपस्थित-संस्कृत-शिक्षार्थिभ्यः निःशुल्कं संस्कृतशिक्षादानेन, शोधार्थिभ्यः पथ-प्रदर्शनेन, स्वाध्यायेन सह संस्कृत-हिन्दी-भाषयोः लेखन-प्रकाशनद्वारा समाजं राष्ट्रं च सेवमानः सरस्वतीं मातरं समुपास्ते।
अद्यावधि डाँ. कांकर-महोदयस्य देशस्य सुप्रीतिष्ठित 160 पत्र-पत्रिकासु, अभिनन्दनग्रन्थेषु, स्मारिकासु पुस्तकेषु च संस्कृते हिन्द्यां च गद्य-पद्ययोः प्रायः 14000 परिमिताः रचनाः यत्र प्रकाशिताः सन्ति। एतेन महानुभावेन संस्कृते 40 पुस्तकानि प्रणीतानि, स्वपितृपादानां 13 पुस्तकानां सम्पादनेन सह 3 पुस्तकानि व्याख्यया सह सम्पादितानि। इदमेव न, अनेन परेषां 10 पुस्तकानां सव्याख्यं सम्पादनं तथा 35 पुस्तकानां केवलं सम्पादनम् अपि कृतम्।
डाँ. कांकरेण संस्कृते लिखितानां 31 पुस्तकानां स्वयं द्वारा तथा परेषां द्वारा च हिन्दी भाषायां रूपान्तरणं स॰जातमस्ति।
आचार्य-कांकरस्य 32 कृतयः विभिन्न-संस्थाभिः संस्कृते कथा-निबन्ध-नाटक-समस्या-पूर्तिभिः सम्बन्धितासु प्रतियोगितासु प्राप्त-पुरस्काराः सन्ति।
राजस्थानसर्वकारः, भारतसर्वकारः, मद्रास-संस्कृताकादमी, दिल्लीसंस्कृताकादमी, उत्तरा´्चल-संस्कृताकादमी, अखिल-भारतीय संस्कृतसाहित्य-सम्मेलनम्, राजस्थान-संस्कृत साहित्य-सम्मेलनम्, आभ्यः एवम् अन्याभ्यः कतिपय-धार्मिक-सामाजिक- सांस्कृतिक- संस्थाभ्यश्च डाँ. काङ्करेण 30 सम्मानाः समधिगताः।
विभिन्न-सामाजिक-सांस्कृतिक-सङ््घटनानि चापि आचार्य- कांकरमहोदयं विद्यालङ््कारः, वैयाकरण-केसरी, विद्या-वारिधिः, साहित्य-शिरोमणिः, साहित्य-सुमेरुः, मीमांसा-केसरी इत्यादि-सम्मानोपाधिभिः समलङ्कृतवन्ति।
आचार्य-कांकरस्य आकाशवाणी-जयपुरकेन्द्रतः संस्कृते 100 कथा-वात्र्ता-कवितापाठाः अपि समये समये प्रसारिताः।
महामहिम-राज्यपाल-कुलपति-शिक्षामन्त्रिभिरपि आचार्यकांकर-विरचितानां कतिपय-पुस्तकानां भूमिका लिखिता।

आचार्य-डाँ. कांकरस्य संस्कृत-कृतिषु अनेके शोधार्थिनः शोधग्रन्थान् विलिख्य राजस्थान, कोटा, कुरुक्षेत्र, उदयपुर, रोहतक, कुरुक्षेत्र, उदयपुर, रोहतक, आगरा, राष्ट्रियसंस्कृत, राजस्थानसंस्कृत, एभ्यः एम.फिल, पी.एच.डी., डी.फिल, विद्यानिधिः, विद्याावारिधिः एताः पदवीः प्राप्तवन्तः, केचन शोधार्थिनश्च साम्प्रतमपि शोधग्रन्थान् रचयितुं संलग्नाः सन्ति।

गंगाधर पण्डा          

श्रीमतां गंगाधरपण्डामहोदयानां जन्म 8.8.1957 वर्षे उत्कलप्रान्तस्थिते कटकजनपदस्थे सलारा ग्रामोऽभूत्।
प्रो. पण्डामहोदयाः संस्कृतविषये एम.ए. परीक्षां विक्रमविश्वविद्यालयोज्नैनतः उत्तीर्य, जगन्नाथ-संस्कृतविश्वविद्यालयपुरीतः पुराण साहित्य-धर्मशास्त्र सांख्ययोगविषये आचार्यपरीक्षाः प्रथमश्रेण्यामुत्तीर्णवन्तः। इमे महानुभावाः राष्ट्रीयसंसकृतसंस्थानमानित- विश्वविद्यालयतः पी.एच.डी. विद्यावारिधिरियुपाधिमधिगम्य, कामेश्वर सिंह संस्कृतविश्वविद्यालय दरभंगातः विद्यावाचस्पति-डी.लिट् इत्युपाधिं प्राप्तवन्तः।
प्रो. पण्डामहोदयः सिन्धिया ओरियण्टल अनुसन्धानसंस्थान-उज्जैनतः अनुसन्धानसहायकत्वेन सेवाकार्यं प्रारभ्य, क्रमशः राष्ट्रीय संस्कृतसंस्थाने, प्राध्यापकपदे सार्धाष्ट-वर्षं यावत् सेवां कृतवान्। अनन्तरं सी.एस.एन.एस. संस्कृतमहाविद्यालये तमिलनाडुस्थिते का॰चीपुरे सार्धत्रिवर्ष यावत् प्रधानाचार्यपदे सेवां कृत्वा पश्चात् मानवसंसाधनविकासमन्त्रालस्य शिक्षाविभागे दिल्लीनगरे संस्कृतभाषाया उच्चशिक्षासलाहकरपदे सार्धत्रिवर्षंयावत् कार्यं सम्पाद्य लालबहादुरशास्त्री राष्ट्रीय संस्कृत-विद्यापीठे वर्षद्वयं यावत् कुलसचिवपदस्य कार्य निव्यूढ़वान्। इमे महानुभावाः 23.1.1998 तमे वर्षे सम्पूर्णानन्दसंस्कृतविश्वविद्यालये पुराणेतिहासविभागस्य आचार्यध्यक्षपदे नियुक्तिं प्राप्य 16.6.2000 ई. वर्षतः 15.6.2003 वर्षं यावत् सम्पूर्णानन्दसंस्कृततविश्वविद्यालयस्य साहित्यसंस्कृतसंकायस्य संकायाध्यक्षपदेऽपि सेवां कृतन्तः। एतेषां शोधः निर्देशने दशछात्राः शोधकाये संलग्ना सन्ति।
प्रो. पण्डाद्वारा दशग्रन्थाः प्रणीताः, सम्पादितश्च सन्ति। एभिः षष्ठि संख्याकानि शोधपत्राणि लिखितानि च सन्ति, तथा चत्वारिंशत् वार्ताः, सम्भाषणानि च कृतानि सन्ति, आस्टेªलियादेशस्य मेलवर्ने स्थाने पंचमविश्वसंस्कृतसम्मेलने सहभागिताकृता। एतद्द्वारा लिखितानि उत्कलीयभाषायमपि चत्वारि शोधपत्राणि तथा हिन्दीभाषायामपि अष्टादशशोधपत्राणि प्रकाशितानि सन्ति। प्रो. पण्डामहोदयाः देशादरिक्तं विदेशस्याष्ट्रेलिया, थाईलैण्ड, सिंगापुर नेपाल-देशेष्वपि संस्कृतस्य प्रचाराय भ्रमणं कृतवन्तः।
प्रो. पण्डा महोदयाः अध्यापनेरताः सन्तः देशस्य विभिन्न संस्थासु-क्वचिध्यक्षत्वेन, सदस्यत्वेन, राष्ट्रीयसंस्कृतविद्यापीठस्य
अध्ययनमण्डलस्यसदस्यत्वेन संस्कृतस्योन्नतये संलग्नाः सन् सम्प्रति श्री जगन्नाथ संस्कृत विश्वविद्यालये कुलपतिपदे राजन्ते। एतेषां प्रशासनिकपदेष्वपि महत्त्वपूर्णोपलब्धिरस्ति। पुरश्र्चापाठ्क्रमेष्वपि पण्डामहोदयस्य सहभागिता स्तुत्या अस्ति।

प्रो. पण्डामहोदयाः संस्कृतसाहित्यपरिषदा, तमिलनाडुतः गीर्वाणविद्यारत्नसम्मानेन, सम्पूर्णानन्द संस्कृतविश्वविद्यालयतः, संस्कृतवर्यसम्मानेन, अमृतवाणिसेवाप्रतिष्ठानोत्कलतः अमृतभाषा सम्मानेन, तथा इण्डियन इन्सीट्यूट आफ ओरियण्टल हेस्टिेज कोलकातातः ज्ञानभारतीपुरस्कारेण उत्तर प्रदेश संस्कृत संस्थानतः विशिष्टपुरस्कारेण सम्मानिताः सन्ति।

कालूरि हनुमन्त रावः       

आचार्य-कालूरि हनुमन्तराव महोदयानां जन्म 20 सितम्बर 1931 तमे दिनांके विजयनगरे बभूव। आचार्याणां पिता कालूरि व्यासमूर्तिः माता च रमणम्मास्ताम्।
एते महाभागाः आन्ध्रविश्वविद्यालयतः ठण्ेबण्डण्चींतउण् उपाधिं प्राप्य उस्मानियाविश्वविद्यालयतः पी-एच.डी. इत्युपाधिमार्जितवन्तः। गुरुसकाशात् सिद्धान्तकौमुद्याः कि॰िचत् महाभाष्यस्य तर्कशास्त्रस्य च अध्ययनं प्राप्य स्वप्रज्ञावलेन संस्कृतभाषायां नैपुण्यं प्राप्तवन्तः। एतैः उस्मानिया विश्वविद्यालयान्तर्गत तकनीकिमहाविद्यालयतः प्रोफेसर इति पदात् सेवानिवृत्तः सन् संस्कृतस्य प्रचारप्रसाराय 14 ग्रन्थाः विरचिताः तेषु प्रकाशिताः एते मुख्यग्रन्थाः सन्ति।
रामायणम्-वाल्मीकिरामायणस्य साधारणप्रकाशनग्रन्थाः प्रक्षिप्तभरिताः। संशोधितप्रकाशनग्रन्थे ;बतपजपबंस मकपजपवदद्ध केचन पाठाः समीचीनाः न सन्ति। इमौ विगुणौ परिष्कृत्य रामायणस्य नूतनं प्रकाशनं कृतम्।
महाभारतम्-रामायणवत् विराटपर्व च कृतम्। आदिसभापर्वात्मकग्रन्थस्य ;क्ज्च् संप्रति भवति।
1, 2 ग्रन्थयोरनुबन्धेषु रामायणमहाभारतचर्चा कृता।
निबन्धाः-केचनरामायणमहाभारतविमर्शात्मकाः। रामायणसमालोचनम्, सीताग्निप्रवेशः, रामायणस्य संशोधितप्राच्यप्रकाशनयोः तुलना, कर्णः, महाभारते केचन ऊहनीयाः विषयाः द्रौपदीं प्रति कैचन भ्रमाः इत्यादयः। केचन काव्यतत्त्वविवेचनात्मकाः। साहितीजगती, काव्ये अस्पष्टता इत्यादयः। केचन काव्यभावाविष्करणात्मकाः। कालिदासस्य काव्यरीतिः, कविर्नीलकण्ठदीक्षितः इत्यादसः। केचन भाषाव्याकरणपरिशीलनात्मकाः। शब्दप्रयोगचर्चा, कन्याशब्दार्थविचारः, पुरा संस्कृतं जनभाषा आसीत् प॰चशतं रूप्यकाणिकिमुत पचं्शतानि रुप्यकाणि इत्यादयः। साहितीजगतीग्रन्थस्य 1974-75 संवत्सरस्य कृते उत्तरप्रदेशसंस्कृतसंस्थानेन पुरस्कारो लब्धः।
सीताहरणम्, पाण्डवविजयम्-अनयोर्नाटकयोः प्राचीननवीननाटकविधानसम्मेलनं कृतम्।
काव्यानि। कानिचन पौराणिकानि। मेवाडराजवंशचरित्रिम्। मण्डूकोद्घोषः सामाजिकी। मृगतृष्णा च।
कथाः-आधुनिकजीवनसमस्याचित्रणात्मिकाः।
भल्लटशतकम्-प्राचीनकाव्यव्याख्यानम् एभिः लिखिताः। 

युगलकिशोरमिश्रः    

प्रो. युगलकिशोरमिश्रवर्याः त्रैपौरुष्यावेदविद्यया परिकृतान्तःकरणाः महनीयमनीषिणः सन्ति। एतेषां जन्म 1953 ईशवीवर्षे वाराणस्यां जातम्। प्रारम्भत एव वैदिकसस्वराध्ययनस्य परम्परायां प्रवृत्तिं विधाय मिश्रवर्यैर्माध्यन्दिनीयशाखा समभ्यस्ता। पूज्यपितामहपादानामाहिताग्नि-पण्डितभगवत्प्रसादमिश्राणां सान्निध्ये वेदमीमांसादिशास्त्रविशारदानां प्रथितमनीषिणां
प्रो. गोपालचन्द्रमिश्रपितृचरणानामन्तेवसित्वेन च वेदवेदांगशास्त्राणां गभीराध्यनमनुष्ठितम्।
काशीहिन्दूविश्वविद्यालयतः वेदाचार्यपरीक्षायां संस्कृतविषये एम.ए. परीक्षायां च सर्वोच्चस्थानमवाप्य स्वर्णादिपदकानि प्राप्तानि। पौरस्त्यपाश्चात्त्यसंस्कृत्योस्तौलनिकज्ञानं मिश्रवर्याणां वैशिष्ट्यमस्ति। काशीहिन्दूविश्वविद्यालयस्य कलासंकायान्तर्गते संस्कृतविभागे अध्यापनानन्तरं चतुस्त्रिंशद्वर्षेभ्यः संपूर्णानन्दसंस्कृतविश्वविद्यालयीये वेदविभागे आचार्यपदमलंकुर्वाणाः आचार्यमिश्राः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य प्रतिकुलपतिपदं भारतसर्वकारीयमानवसंसाधनविकासमन्त्रालयाधीनस्य महर्षिसान्दीपनिराष्ट्रिय- वेदविद्याप्रतिष्ठानस्य सदस्यसचिवपदं, जगद्गुरुरामनन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालयस्य जयपुरस्थस्य कुलपतिपदं च विभूषिवन्तः। भारते कोलकाता-देहली-जयपुर-उज्जयिनी-चेन्नई-विजयवाड़ा-पुणे-अहमदाबाद-मुम्बापुरी-गुवाहाटी-पालघाट-गोवा-जम्मू- प्रभृतिनगरेषु राष्ट्रियसंगोष्ठीसत्रेषु अध्यक्षत्वं कृतवन्तः। आस्टेªलिया-थाईलैण्ड-फ्रांस-इटली-सिंगापुर-नेपालादि- देशेष्वन्ताराष्ट्रियसंगोष्ठीसत्रेषु च शोधनिबन्धाः प्रस्तुताः सत्रसंयोजनं च विहितमाचार्यमिश्रैः।
आचार्यमिश्राः सरस्वतीसम्मान-गंगेश्वरवेदवेदांगसम्मान-हारीतपुरस्कार-वेदांगपुरस्कार-व्यासपुरस्कारादिभिः सभाजिताः सन्ति। आचार्ययुगलकिशोरमिश्राणां भूयांसो ग्रन्थाः विविधैः संस्थानैः पुरस्कृताः प्रशंसिताश्च विद्यन्ते। तेषु प्र्रमुखा भवन्ति-वैदिकसूक्तमुक्ताबलिः, शुक्लयजुर्वेदप्रातिशाख्यज्योत्स्नावृत्तिः, वाजसनेयप्रातिशाख्य-एक परिशीलन, माध्यन्दिन-शतपथब्राह्मणम्, (हिन्दीव्याख्या) प्रभृतयः। भारतीयैर्वैदेशिकैश्च शोधार्थिभिर्मिश्रवर्याणां निर्देशने विद्यावारिधि-डी.लिट्-शोधोपाधयः सम्प्राप्ताः। वेदविद्यायाः भारतीयशास्त्राणां च निरन्तसाधनाया दीक्षाव्रतिनः सन्ति मिश्रवर्याः।

उमारमण झा     

सौम्याकृतयः मृदुभाषिणः संस्कृतसेवार्थं समर्पिताः डा. उमारमणझा-महोदयाः हिन्दीसंस्कृतआंग्लमैथिली-भाषासु रचनाकौशलं विभावयन्तः दर्शनशास्त्रे विशेषतो न्यायनये परमनिष्णाताः व्याकरणतन्त्रायुर्वेदकाव्यशास्त्रादिष्वपि पारङ्गताः सन्ति। एते विद्वांसः
18.7.1943 ख्रीष्टाब्दे स्वीयजन्मना मिथिलायाः पावनीं भूमिमलङ्कृतवन्तः। एतेषां पितृचरणाः पं. रेवतीरमण झाः मातामहः
पं. नीलाम्बर झा मातुलश्च पं. रूपनाथ झा नैयायिकी आस्तम्। एवं न्यायदर्शनमेतेषां रक्ते विद्यते। बाल्यावस्थायामार्थिकसङ्कटापन्नोऽपि पद्भ्यां 9 किलोमीटराणि यावद्गत्वा अध्ययनं कृतवन्तः।
मुजफरनगरदरभड्गास्थनायोः बी.ए.-एम.ए.-न्यायाचार्य-पी-एच.डी.डी. लिट् इत्येतानुपाधीन् सम्प्राप्य केन्द्रीय-संस्कृतविद्यापीठस्य (सम्प्रति राष्ट्रीयसंस्कृतसंस्थानं मानितविश्वविद्यालयः) जम्मूकेरलश्रृङ्गेरी-लखनऊ-परिसरे दर्शनशास्त्रप्रवक्तृपदं व्याख्यातृपदं पुनश्च 1991 तः प्राचार्यपदं संभूष्य प॰चनवत्युत्तरैकोनविशतितमे ख्रीष्टाब्देऽवकाशं गृहीतवन्तः।
चत्वारिंशच्छात्रेभ्यः शोधनिर्देशनं कृतवन्तः झाममहोदयाः एकवर्षं यावद्वृन्दावनशोधसंस्थानस्य निदेशकपदे विराजमानाः स्वेच्छया तत्पदं त्यक्त्वेदानीं सुरेन्द्रनगरे (लखनऊ) सरस्वतीशोधसंस्थानस्य संस्थापकनिदेशकपदे विराजन्ते।
अखिलभारतीयप्राच्यविद्यासम्मेलनेषु कालिदासअकादम्यां् गोरखपुरविश्वविद्यालयेऽन्यत्र च यत्र-तत्र गरिमापूर्णमध्यक्षसचिव- सदस्यादिपदमलङ्कुर्वाणाः शास्त्रर्थनैपुण्यपारङ्गताः दर्शनशास्त्रतत्त्वोद्घाटनार्थं श्रृङ्गेरीका॰चीपुरं चेति द्वयोः पीठयोः शङ्कराचार्याभ्यां कर्णाटकप॰जावरचु॰चनगिरीत्येतन्मठाधीश्वरैश्च साशीर्वादं पुरस्कृताः एते महानुभावाः तिरुपतिकेन्द्रीयसंस्कृतविद्यापीठे आगमकोशशोध- योजानानायां महत्त्वपूर्णं कार्यं विहितवन्तः। उत्तरप्रदेशसंस्कृतसंस्थानतश्च विशिष्टपुरस्कारेण समाजिताः।
एतैः विरचितानां ग्रन्थानां त्रयस्त्रिंशत् सङ्ख्या अस्ति तत्र च त्रयोदशसु प्रकाशितेषु ग्रन्थेषु दशपदार्थशास्त्रम् आ॰जनेयचिन्तनम्, लक्ष्मीसरस्वत्योर्विवादः, शाक्तदर्शनम्-दशमहाविद्याश्च नृसिंहपाठावली विद्यापतिकृतचिकित्सा॰जनम् आचार्य-भासर्वज्ञः व्याकरणसारः मुक्तिचिन्तामणिः पा॰चरात्रसङ्ग्रहः खण्डनखण्डखाद्यम् (सम्पादितम्) भारतीयसंस्कृति की वैज्ञानिकता, मध्यवर्ती न्यायशास्त्र का एक अध्ययन, फिलासाफिकल एड्रस इत्येते सम्पादिता अनूदिताः व्याख्याताश्च। मौलिककाव्यरचनाः श्रीनेहरूचारुचर्चा विवेकसाहस्री गणेशशतकम् मुकुन्दचरितम् इत्येताः।
परः द्विशतं निबन्धलेखकविताकथादि यत्र-तत्र पत्रिकासु प्रकाशनतां गतम्।
दार्शनिकाः सुकवयः चिन्तकाः भागवताश्च एते महानुभावाः परम्परागताधुनिकपद्धत्योः संस्कृतभाषायाः सङ्गणकोपयोगित्वप्रकाशनार्थमपि कार्यं कृतवन्तः।

शिवसागर त्रिपाठी   

उत्तरप्रदेशीय सण्डीलानगरवास्तव्यस्य महामहोपाध्यायस्य डाँ. शिवसागर त्रिपाठिनः सारस्वतकर्मस्थली राजस्थानं वर्तते। 1956 तः व्यावरस्थे राजस्थानमहाविद्यालये तथा 1962 तः राजस्थानविश्वविद्यालये कार्यरतो विद्यते स्म। तत एवं 1994 वर्षे संस्कृतविभागाध्यक्षपदात् सेवानिवृत्तोऽभूत्। सततमध्ययनं शोधः लेखनं कवनं प्रकाशन॰चास्य दिनचर्याऽस्ति। रामायण महाभारत-पुराणादिसम्बद्धं निर्वचनविज्ञानमधिकृत्य शोधकार्यं कृतमनेेन। निर्वचनविज्ञानस्य प्रस्थापनापि सद्यः प्रकाशिते वाग्ब्रह्मणः निर्वचनविज्ञानम् ग्रन्थे कृता। यू.जी.सी. द्वारा प्रायोजितौ द्वौ शोधप्रकल्पौ स्वशोधबोधेन पूरितौ। निर्देशनेऽस्य 15 शोधप्रबन्धाः 30 लघुशोधप्रबन्धाश्च लिखिताः। एभिःद्विशताधिक-संगोष्ठीषु सहभागिताकृता। षट्शताधिकशोधलेखसर्जनात्मक-साहित्यदिकं प्रकाशितम्। आकाशवाणी-दूरदर्शन-कार्यक्रमेषु अस्य संगतिः विधतेस्म पूर्वं मेधा-त्रिदिधा-मधुकक्षा-स्वरमङ्लादिपत्रिकाना सम्पादकः तथा भारतीसंस्कृतपत्रिकायाः स्तम्भलेखः आसीत्।
विदुषाऽनेन मौलिक-सम्पादित-अनूदित-समीक्षिताः षट्चत्वारिंशदधिकरचनाः नैकाः रचनाः विशिष्ट-विशेष-आचार्य-ज्ञानसागर- साहित्यसम्मान-शास्त्रपुरस्कार-वेदवेदाड्ग सभाजितः पुरस्कारैः। अथ च विविध साहित्यिक संस्थाभिरपि पुरस्कृतः। सम्मानितश्च तासु प्रमुखाः सन्ति राजस्थान संस्कृत अकादमी, दिल्ली संस्कृत अकादमी-उत्तर प्रदेश संस्कृत संस्थानम्, सम्पूर्णानन्द संस्कृत विश्वविद्यालय-राजस्थान-संस्कृत निदेशालय-बालावक्ष शोध संस्थान-राजगंगा चैरिटेबलट्रस्ट-राजस्थान जनम॰च-राजस्थान जनहितम॰च-जैनअतिशयक्षेत्र-बद्रीप्रसादचैरिटेबलट्रस्ट-च राजस्थानसर्वकारन्यायअधिकारिताविभागप्रभृतयः।
देववाणीसाधकस्यास्य सारस्वतोल्लेखः त्रिशदधिकसाहित्यकारः-कोशेषु पत्रिकासु संकलनेषु इतिहासग्रन्थेषु च वर्तते। अस्य व्यक्तित्वं कृतित्व॰चाधिकृत्य शोधः सम्पन्नः। हीरकजयन्त्यां राजस्थानविश्वविद्यालयस्य जैन-अनुशीलन-केन्द्रतः शिवायनम्अभिनन्दनग्रन्थोऽपि प्रकाशितः। 

 त्रिवेणीप्रसाद शुक्लः

डाँ. त्रिवेणीप्रसादशुक्लस्य जन्म मातुर्विन्घ्यवासिन्याः कुक्षौ स्थितस्य मीरजापुरजनपदस्थितस्य नदौली-इति ग्रामे 30.6.1994 वर्षेऽभवत्। श्रीशुक्लस्य पिता स्व. रामनरेश शुक्लः एवं माता स्वर्गीया गुजराती देवी आसीत्।
श्री शुक्लः प्राथमिकविद्यालयाध्ययनानन्तरम् संस्कृतस्य अध्ययनं प्रथमापरीक्षातः साहित्याचार्यपर्यन्तं ग्रामस्यसमीपे आदर्श श्री शिवप्रसाद संस्कृतमहाविद्यालये दरामलगंजेजातम्।
सम्पूर्णानन्दसंस्कृतविश्वविद्यालय-वाराणसीतः 1977 ईस्वीये वर्षे विद्यावारिधिः (पी.एच.डी.) इत्युपाधिराधिगता आचार्यशुक्लेन।
आचार्यः शुक्लः सर्वप्रथमं अध्यापनकार्यं 1966 तः 1969 यावत् विश्वनाथ संस्कृतपाठशालाकोराॅव-इलाहाबादे कृतवान्। अनन्तरं सम्पूर्णानन्द संस्कृतविश्वविद्यालये साहित्य विभागे अस्थायिसाहित्यशिक्षकपदे 1972 तः अक्टूबर 1978 यावत् अध्यापनं विधाय नवम्बर 1978 तः जूनमासस्य 2002 यावत् लखनऊस्थिते उत्तर प्रदेश संस्कृत संस्थाने सर्वेक्षकपदे कार्यं सम्पादितवान्। इतः प्रकाशितायाः परिशीलनम् षाण्मासिकी पत्रिकायाः सेवापर्यन्तं सम्पादनमपि कृतम्। उत्तर प्रदेश संस्कृत संस्थानात् सेवानिवृत्तः श्रीशुक्लः काशीहिन्दूविश्वविद्यालये संस्कृतविद्या धर्मविज्ञान संकायस्य साहित्य विभागे 2010-11 शिक्षासत्रे अतिथि-अध्यापकपदे अध्यापनं कृतवान्। अनन्तरं श्री शुक्लः सम्पूर्णानन्दसंस्कृतविश्वविद्यालये 2012-13 शिक्षणसत्रे पुराणविभागे विजिटिंग फेलो पदे नियुक्तिं प्राप्य कार्यं कृतवान्। इदानीमपि तस्यैव विश्वविद्यालयस्य पुराणविभागे अतिथिप्राध्यापकरूपेण अध्यापनकार्यं करोति।
हिन्द्यां ‘‘गीतमाला’’ ‘‘गीतम॰जरी’’ संस्कृते प्रकाशिता अस्ति। एभिः लिखिताः शोधविषयकाःलेखाः संस्कृतस्य विविधासु पत्रपत्रिकासु प्रकाशिताः सन्ति। डाँ. शुक्लः आकाशवाणी लखनऊ द्वारा संस्कृतकाव्यसुधान्तर्गतकार्यक्रमे भागं गृहीतवान्। श्री शुक्लेन पठितानि बहुशः संस्कृतलोकगीतानि राष्ट्रगीतानि तथा अनेकाः संस्कृतवार्ताः आकाशवणीतः प्रसारिताः सन्ति। श्री शुक्लः प्राच्यविद्यासम्मलने विविधासु प्रान्तीयाः राष्ट्रिया, अन्ताराष्ट्रीया काव्यगोष्ठीसु सहभागितां कृतवान्।
आचार्यशुक्लः प्रदेशस्य विभिन्नसंस्थाभिः-मानद सम्मानेन सम्मानितः। 1999 ईश्वीये वर्षे  संस्कारभारती साकेत अवधप्रान्त द्वारा प्रदत्तकालिदाससम्मानेन एवं तस्मिन्नेववर्षे गीतामानसप्रचारिणी एवं जनहितकारणी सेवा समिति अयोध्या द्वारा प्रदत्त साहित्यसाधना प्रशस्ति पत्रेण तथा नैक संस्थाभिः सम्मानेन सम्मानितोऽभवत्। 2008 वर्षे डाँ. शुक्लः उत्तरप्रदेशसंस्कृतसंस्थान द्वारा विविधसाहित्यपुरस्कारेण पुरस्कृतः वर्तते।
आचार्य शुक्लः स्व. काशिराजविभूतिनारायणसिंहजू द्वारा प्रतिष्ठापितविश्वसंस्कृतप्रतिष्ठानस्य महामन्त्रिपदे विराजमानः सन् ततः प्रकाश्यमानायाः विश्वभाषा संस्कृतपत्रिकायाः प्रबन्धकसम्पादकपदे सम्प्रति कार्यरतः वर्तते। काश्यां मुमुक्षु भवने स्थितः श्रीशुक्लः अध्ययनार्थं आगतान्छात्रान् पाठयति। 

प्रेमा अवस्थी

संस्कृतवाङ्मये कृतभूरिपरिश्रमाः परमविदुष्यः डाँ. प्रेमाऽवस्थिमहोदयाः उत्तरप्रदेशस्य सीतापुरजनपदस्य छरासीग्रामे मईमासस्य प॰चदशतरिकायां त्रिचत्वारिंशदुत्तरैकोनविशतितमे ईसवीयवर्षे (15-5-1943) जनिमलभन्त।
अवस्थिमहोदयाः सीतापुरजनपदस्य कमलापुरे प्रारम्भिकशिक्षां सम्प्राप्य लखनऊविश्वविद्यालयतः स्नातकोत्तरपरीक्षां प्रथमश्रेण्यामुत्तीर्य स्वर्णपदक॰चाप्य पी-एच.डी अपि तस्माद् विश्वविद्यालयात् कृतवत्यः।
अवस्थिमहोदयाः अगस्तमासस्य एकोनसप्तत्युत्तरनवदशतमे वर्षे कर्णपुरस्थकिदवईनगरे महिलामहाविद्यालयस्य संस्कृतविभागे नियुक्तास्तत्रैव विभागस्याध्यक्षपदमलङ्कृत्य जूनमासे ×यधिकद्विसहस्रतमे वर्षे (जून 2003 ई.) सेवानिवृत्ताः स॰जाताः।
एताः महोदयाः विंशत्यधिकग्रन्थान् प्रणीय अखिलभारतीस्तरे अन्ताराष्ट्रियस्तरे च समायोजितासु गोष्ठीसु भागं गृहीतवत्यश्शोधपत्रवाचनं विहितवत्यश्च। एताभिः प्रणीतेषु ग्रन्थेषु नारायण कृत मानमेयोदयम् एकमालोचनात्मकमध्ययनम्’, भारविकृतकिरातार्जुनीयस्य समीक्षा इत्यादि प्रमुखाः सन्ति।
            एताः महोदयाः भारतसर्वकारस्य विविधाभ्यः संस्थाभ्यः अनेकपुरस्कारैः सभाजिताः सन्ति। कर्णपुरे अखिलभारतीयसंस्कृतप्रचारिणीसमित्या, अखिलभारतीयहिन्दीप्रचारिणीसमित्या च सभाजिताः एताः राष्ट्रियस्तरे समायोजितकालिदासव्याख्यानमालायाः प्रदेशस्तरीयवैदिकगोष्ठ्याः राष्ट्रियस्तरेऽद्वैतवेदान्तविषयकसंगोष्ठ्याः, राष्ट्रियस्तरीयवैदिकसंगोष्ठ्याश्च सफलतापूर्वकमायोजन´्च कृतवत्यः। अवस्थिमहोदयाः उत्तरप्रदेशसंस्कृतसंस्थानेन विशिष्टपुरस्कारेणापि सम्मानिताः। 
            संस्कृतभारत्याः माध्यमेन संस्कृतस्य प्रचाराय प्रसाराय च सततनिरताः संस्कृतसंभाषणशिविराणि निःशुल्कं पाठयन्त्यः गीतापीयूषमिति पत्रिकायाः श्रीमöगवद्गीतायाः अमूल्याध्यात्मिकतत्वानि जने जने सम्प्रेषणे कृतसंकल्पाः, ज्ञानपिपासुशोधच्छात्रेभ्यः सन्मार्गदर्शनस्वच्छसलिलाः कर्णपुरे रतनलालनगरे दिव्यधम्नि संवसन्त्यः संस्कृतसेवामहर्निश॰चाचरत्यः शोभन्तेतराम्। 

रमाकान्त शुक्लः        

            भारतस्य उत्तरप्रदेशे बुलन्दशहर-जनपदान्तर्गते खुर्जानगरे 24.12.1940 तमे दिनांके श्रीमतः ब्रह्मानन्दशुक्लात् श्रीमत्यां प्रियंवदायां लब्धजन्मा रमाकान्तशुक्लः खुर्जानगरे एव पालितो वर्धितः शिक्षितश्चाभूत्।
डाँ. शुक्लमहाभागस्य संस्कृतविद्यागुरवः आसन् कुलगुरुः विद्यावाचस्पति पं. परमानन्द जी शास्त्री, व्याकरणशास्त्रस्य गुरुः पं. कुबेरदत्त जी शास्त्री साहित्यस्य च पं. ब्रह्मानन्द जी शुक्लः। तेन आगराविश्वविद्यालयतः हिन्दी विषये एम.ए. परीक्षा प्रथमश्रेण्यां स्वर्णपदकसहिता 1961 तमे वर्ष समुत्तीर्णा, 1962 तमे वर्षे वाराणसीतः साहित्याचार्य-परीक्षा प्रथमश्रेण्यामुत्तीर्णा, 1964 तमे वर्षे आगराविश्वविद्यालयतः संस्कृतविषये एम.ए.परीक्षा प्रथमश्रेण्यामुत्तीर्णा कि´्च 1967 तमेऽब्दे आगराविश्वविद्यालयतः हिन्दी विषये, पी-एच.डी. उपाधिर्लब्धः 16.7.1962 तः 23.12.2005 पर्यन्तम् आगराविश्वविद्यालयस्य मुलतानीमल मोदी स्नातकेात्तरमहाविद्यालये दिल्लीविश्वविद्यालयस्य राजधानीमहाविद्यालये च हिन्दीविषयोऽध्यापितः। 1963 तः अद्यपर्यन्तं आकाशवाणी-दूरदर्शनयोः अनेन बहवः साहित्यिककार्यक्रमाः प्रस्तूतयन्ते च। अस्य प्रसिद्धाः संस्कृतरचनाः सन्ति- भाति मे भारतम्’ (एकादश संस्करणानि) जय भारतभूमे’, ‘भाति मौरीशसम्’, ‘सर्वशुक्ला’, ‘सर्वशुक्लोत्तरा’, ‘नाट्यसप्तकंचेति।
भाति मे भारतम् जय भारतभूमे, पण्डित राजीयम्, अभिशापम्, भारतजनताहम् एतानि पुस्तकानि उत्तरप्रदेशसंस्कृतसंस्थानेनं पुरस्कृतानि सन्ति। ध्वनिनाटकम्, नाट्यसप्तकम्, भारतजनताहम् एते त्रयो ग्रन्थाः दिल्ली संस्कृत अकादमीतः पुरस्कृताः, भारतीयविद्याभवन दिल्लीतः सर्वशुक्लोत्तरा इति ग्रन्थः कौस्तुभ पुरस्कारेण पुरस्कृतः।
डाँ. शुक्लमहोदयस्य काव्यं भाति में भारतम् अंशतः पूर्णतो वा माध्यमिक शिक्षा परषिदीयविद्यालयेषु विभिन्नविश्वविद्यालयेषु च पाठ्यक्रमरूपेण निर्धारितोऽस्ति।
अयं 1979 तः अर्वाचीनसंस्कृतम्इत्येतन्नाम्नाः त्रैमासिकपत्रस्य संस्थापकप्रधानसम्पादकोऽस्ति। अखिल भारतीय प्राच्यविद्यासम्मेलनस्य विश्वसंस्कृतसम्मेलनस्य च त्रिंशत्प्रायेषु अधिवेशनेषु सहभागितामकरोत्। अयं 2009 तमे वर्षे भारतस्य महामहिमराष्ट्रपतिना सम्मानपत्रेणालड्.कृतः। अद्यत्वे राष्ट्रियसंस्कृतसंस्थानस्य मुख्यालये शास्त्रचूड़ामणिविद्वान् सन् सारस्वतं तपोऽनुतिष्ठति। 

जयप्रकाशनारायण द्विवेदी          

महामहोपाध्यायप्रोफेसरजयप्रकाशनारायणदिवेदिमहोदयस्य जन्म चतुर्प॰चाशदधिकैकोनविंशतिशततमस्याप्रैलमासस्य प्रथमे दिनाङ्के उत्तरप्रदेशस्थकुशीनगरजनपदस्य पिपरैचानाम्निग्रामे पण्डितश्रीविश्वनाथधरदिवेदिनःश्रीमतीबेइलादेव्याश्च पुत्ररूपेऽभूत्। गोरक्षपुरविश्वविद्यालयतः स्नातकस्नातकोत्तरपरीक्षे आचार्यपरीक्षां भाषाविज्ञाने स्नातकोत्तरप्रमाणपत्रीयपरीक्षां विद्यावारिधिञ्च सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः उत्तीर्याचार्यनरेन्द्रदेवकिसानस्नातकोत्तरमहाविद्यालयेऽध्यापनं कृत्वा इमे नवत्युत्तरैकोविंशतिशततमस्य त्रयोदशमार्चतः श्रीद्वारकाधीशसंस्कृताकादम्याः गुर्जरप्रान्तस्य द्वारकानाम्नितीर्थे संप्रति आचार्यनिदेशकरूपे दायित्वं स्वं निभालयन्ति ।
डाँ. द्विवेदिना सम्पादितप्रणीतानूदितसहसम्पादितमौलिकान्यविध.तयः चतुर्विंशतिसङ्ख्याकाः प्रकाशितशोधलेखाश्च शताधिकाः सन्ति । एतेषान्निर्देशने त्रयस्त्रिंशच्छात्राः छात्राः पीएच. डी. इत्युपाधये निर्देशनं गृहीताः उपाधिरपिप्राप्ताः सन्ति।  एतस्मै विविधविश्वविद्यालयैः शिक्षणसंस्थाभिः सर्वकारसंबद्धतदितरसंस्थाभिःश्च पञ्चत्रिंशदुपाधयः मानदरूपे प्रदत्ताः। प्रसारभारती-दूरदर्शन- आयकररेलवेमहर्षिसान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानविविधविश्वविद्यालय राष्ट्रियसंस्कृतसंस्थानसामाजिकसंगठनाना॰च सलाहकारप्रकल्पाकादमिककार्यकारिण्यनुसन्धानविशेषज्ञसमितिषुच पञ्चविंशतिवर्षेभ्यः सततमेभिर्योगदानं कृतं संरचात्मकम् । एतदतिरिक्तं नारीविकाससशक्तिकरणयोर्दलितचेतना -जागरणे जातीयैक्ये पर्यावरणशुद्धिकरणे शैक्षणिकसंस्थासमुदायविकासे माध्यमिकशिक्षणतः उच्चशिक्षापर्यन्तं पाठ्यक्रमनिर्माणेचविविधानि कार्याणि   कृतान्येभिर्महानुभावैः सार्धशतपरिमितशोधपत्राण्युपस्थाय राष्ट्रियान्तर्राष्ट्रियसम्मेलनेषु  शताधिकसंस्थासुप्रबन्धकत्वमाध्यक्ष्यं मुख्यसारस्वतविशिष्टातिथिसंयोजकायोजक- स॰चालकदायित्वानि च निभालयन्तः भवन्तः भारतवर्षस्य प्रायःप॰चदशेषु राज्येषु पुरस्.ताःसम्मानिताश्च जाताः ।
संस्कृतसंस्कृत्योरुन्नयने स्वच्छभारतप्रकल्पकार्यान्वनयने हस्तलिखितपाण्डुलिपिदुर्लभग्रन्थ पुरातात्त्विकसामग्रीणा॰चसंरक्षणे संस्कृतकविसम्मेलनेषुच दायित्वं निभालयद्भिःमहत्त्वपूर्णकार्याणिकृतानिभवद्भिः रेडक्रोससोसायटीविविध शोधपत्रिकापरामर्शदातृसमीक्षासमितिषु च आजीवनसदस्यतां निर्वहन्तः भवन्तः वैदिकसंशोधनमण्डल सौराष्ट्रविश्वविद्यालयमहाविद्यालयसंस्.तप्राध्यापकसंघसौराष्ट्रविश्वविद्यालयसंस्कृत-पाठ्यक्रमसेनेटबोर्डओघ््एकाउन्टप्रभृतिसमितिषु चाध्यक्षपदमलंकुर्वन्ति। सम्प्रति  अखिलभारतीयसंस्कृत-पत्रकारसङ्घोपाध्यक्षकेन्द्रीयविद्यालयसमितिसदस्याना॰चद्विवेदिवर्याणामनेककार्याण्यवलोक्य वेरावलस्थ श्रीसोमनाथसंस्कृतविश्वविद्यालयकाशीस्थाखिलभारतीयविद्वत्परिषत्कोलकातास्थज्योतिषविश्वविद्यापीठैश्च ‘‘विद्यावाचस्पतिः (डी.लिट्.)’’ संस्कृतविद्याविशारदश्चेति द्वारकाशारदापीठेन महामहोपाध्यायः स्वामिनारायणसम्प्रदायेनपण्डितराजः  गुजरातसर्वकारसंस्कृताकदम्या वेदशास्त्रपारङ्गतसंस्कृतगौरवः अन्याभिश्च शैक्षणिकसांस्कृतिकसंस्थाभिः वागीशःब्रह्मर्षिःसुरसरस्वतीसाधकःभारतज्योतिः, साहित्य-भास्करः, विद्या-भास्करः, भारतशिक्षारत्नम्, समन्वयः, संस्कृतगौरवः, वरिष्ठनागरिकः, लाईफ् टाईम एजुकेशनल एक्सीलेन्स , नेशनल ग्लोरी एजुकेशनिष्ट, बेस्ट नेशनल प्रबन्धनं, श्रेष्ठ शिक्षाविद्, बेस्ट एकेडमिक, भारतीयसंस्कृतिसेवापुरुषश्चेति बहुविधपुरस्कारैः सम्मानैश्च सम्मानिताः आचार्यद्विवेदिनः अनेकख्यातिलब्धपत्रपत्रिकासु प्रकाशितशोधलेखैः काव्यरचनाभिश्च संस्कृत- लेखककविकुशलप्रशासकसारस्वतपुरुषरूपेषु च लब्धकीर्तयः सन्ति डा. दिवेदिनः निखिलेभारतवर्षे। गुर्जरे संस्.तप्रचारप्रसारोपक्रमे इमे महानुभावाः प्रादेशिकसमितिसदस्याः अप्यासन् ।