आलवन्दारस्तोत्रम् (ध्वनिसहितः)



स्वादयन्निह सर्वेषां त्रयन्तार्थं सुदुर्ग्रहम्।
स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम्।।

नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये  ।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे  ।।1।।

तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्व-
ज्ञानानुरागमहिमातिशयान्तसीम्ने  ।
नाथाय नाथमुनयेऽत्र परत्र चापि
नित्यं यदीयचरणौ शरणं मदीयम्  ।।2।।

भूयो नमोऽपरिमिताच्युतभक्तितत्त्व-
ज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोकेऽवतीर्णपरमार्थसमग्रभक्ति-
योगाय नाथमुनये यमिनां वराय ।।3।।

तत्त्वेन यश्चिदचिदीश्वरतत्स्वभाव-
भोगापवर्गतदुपायगतीरुदारः  ।
संदर्शयन्निरमिमीत पुराणरत्नं
 तस्मै नमो मुनिवराय पराशराय ।।4।।

माता पिता युवतयस्तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम्  ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं
श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना  ।।5।।

यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्
                नस्मन्मनोरथपथः सकलः समेति  ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत्
पादारविन्दमरविन्दविलोचनस्य  ।।6।।

तत्त्वेन यस्य महिमार्णवशीकराणुः
शक्यो न मातुमपि शर्वपितामहाद्यैः  ।
कर्तुं तदीयमहिमस्तुतिमुद्यताय
मह्यं नमोऽस्तु कवये निरपत्रपाय  ।।7।।

यद्वा श्रमावधि यथामति वाप्यशक्तः
स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः  ।
वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः
को मज्जतोरणुकुलाचलयोर्विशेषः  ।।8।।

किञ्चैष शक्त्यतिशयेन न तेऽनुकम्प्यः
स्तोतापि तु स्तुतिकृतेन परिश्रमेण  ।
तत्र श्रमस्तु सुलभो मम मन्दबुद्धे-
रित्युद्यमोऽयमुचितो मम चाब्जनेत्र  ।।9।।

नावेक्षसे  यदि ततो भुवनान्यमूनि
नालं प्रभो भवितुमेव कुतः प्रवृत्तिः 
एवं निसर्गसुहृदि त्वयि सर्वजन्तोः
 स्वामिन्विचित्रमिदमाश्रितवत्सलत्वम्  ।।10।।

स्वाभाविकानवधिकातिशयेशितृत्वं
नारायण त्वयि न मृष्यति वैदिकः कः 
ब्रह्मा शिवः शतमखः परमस्वराडि
त्येतेऽपि यस्य महिमार्णवविप्रुषस्ते  ।।11।।

कः श्रीः श्रियः परमसत्त्वसमाश्रयः कः
कः पुण्डरीकनयनः पुरुषोत्तमः कः 
कस्यायुतायुतशतैककलांशकांशे
विश्वं विचित्रचिदचित्प्रविभागवृत्तम्  ।।12।।

वेदापहारगुरुपातकदैत्यपीडा-
द्यापद्विमोचनमहिष्ठफलप्रदानैः ।
कोऽन्यः प्रजापशुपती परिपाति कस्य
पादोदकेन स शिवः स्वशिरोधृतेन  ।।13।।

कस्योदरे हरविरिञ्चिमुखः प्रपञ्चः
को रक्षतीममजनिष्ट च कस्य नाभेः  
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः
कः केन वैष परवानिति शक्यशङ्कः  ।।14।।

त्वां शीलरूपचरितैः परमप्रकृष्ट-
सत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः  ।
प्रख्यातदैवपरमार्थविदां मतैश्च
नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम्  ।।15।।

उल्लङ्घितत्रिविधसीमसमातिशायि-
संभावनं तव परिब्रढिमस्वभावम्  ।
मायाबलेन भवतापि निगुह्यमानं
पश्यन्ति केचिदनिशं त्वदनन्यभावाः  ।।16।।

यदण्डमण्डान्तरगोचरं च यद्
दशोत्तराण्यावरणानि यानि च  ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः  ।।17।।

वशी वदान्यो गुणवानृजुः शुचिः
मृदुर्दयालुर्मधुरः स्थिरः समः  ।
कृती कृतज्ञस्त्वमपि स्वभावतः
समस्तकल्याणगुणामृतोदधिः  ।।18।।

उपर्युपर्यब्जभुवोऽपि पूरुषान् प्रकल्प्य ते ये शतमित्यनुक्रमात् ।
गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते  ।।19।।

त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः  ।
भवन्ति लीलाविधयश्च वैदिकाःत्वदीयगम्भीरमनोऽनुसारिणः  ।।20।।

नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये  ।
नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसन्धिवे  ।।21।।

न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे  ।
अकिञ्चनोऽनन्यगतिः शरण्य त्वत्पादमूलं शरणं प्रपद्ये  ।।22।।

न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि  ।
सोऽहं विपाकावसरे मुकुन्द क्रन्दामि सम्प्रत्यगतिस्तवाग्रे  ।।23।।

निमज्जतोऽनन्तभवार्णवान्तश्चिराय मे कूलमिवासि लब्धः  ।
त्वयापि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः  ।।24।।

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम्  ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरूपः  ।।25।।

निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङ्कजम्  ।
रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति  ।।26।।

तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथमन्यदिच्छति  ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते  ।।27।।

त्वदङ्घ्रिमुद्दिश्य कदापि केनचिद्यथा तथा वापि सकृत्कृतोऽञ्जलिः  ।
तदैव मुष्णात्यशुभाब्यशेषतः शुभानि पुष्णाति न जातु हीयते  ।।28।।

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम्  ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः  ।।29।।

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम्  ।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा  ।।30।।

कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम्  ।
त्रिविक्रम त्वच्चरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति  ।।31।।

विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम्  ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम्  ।।32।।

चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः  ।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः  ।।33।।

उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम्  ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम्  ।।34।।

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम्  ।
शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम्  ।।35।।

स्फुरत्किरीटाङ्गदहारकण्ठिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः  ।
रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम्  ।।36।।

चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः  ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च  ।।37।।

स्ववैश्वरूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया  ।
गुणेन रूपेण विलासचेष्टितैस्सदा तवैवोचितया तव श्रिया  ।।38।।

तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि  ।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि  ।।39।।

निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः  ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीर्यते जनैः  ।।40।।

दासस्सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः  ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभिना  ।।41।।

त्वदीयभुक्तोज्जिझितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा  ।
प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः  ।।42।।

हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः  ।
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितं  ।।43।।

अपूर्वनानारसभावनिर्भरप्रबद्धया मुग्धविदग्धलीलया  ।
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम्  ।।44।।

अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम्  ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थमापत्सखमर्थिकल्पकम्  ।।45।।

भगवन्तमेवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः  ।
कदाहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः  ।।46।।

धिगशुचिमविनीतं निर्भयं मामलज्जं
परमपुरुष योऽहं योगिवर्याग्रगण्यैः  ।
विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं
तव परिजनभावं कामये कामवृत्तः  ।।47।।

अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे  ।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु  ।।48।।

अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि  ।
भगवन् भवदुर्दिने पथः स्खलितं मामवलोकयाच्युत  ।।49।।

न मृषा परमार्थमेव मे श्रृणु विज्ञापनमेकमग्रतः  ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः  ।।50।।

तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च  ।
विधिनिर्मितमेतमन्वयं भगवान् पलय मा स्म जीहपः  ।।51।।

वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः  ।
तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः  ।।52।।

मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव  ।
नियतस्वमिति प्रबुद्धधीरथवा किं नु समर्पयामि ते  ।।53।।

अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम्  ।
कृपयैवमनन्यभोग्यतां भगवन् भक्तिमपि प्रयच्छ मे  ।।54।।

तव दास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे  ।
इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना  ।।55।।

सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः  ।
महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः  ।।56।।

न देहं न प्राणान्न च सुखमशेषाभिलषितं
न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।
बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा
विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम्  ।।57।।

दुरन्तस्यानादेरपरिहरणीयस्य महतो
निहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि  ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे
तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः  ।।58।।

अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रज-
स्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीमरचयम्  ।
तथापीत्थंरूपं वचनमवलम्ब्यापि कृपया
त्वमेवैवम्भूतं धरणिधर मे शिक्षय मनः  ।।59।।

पिता त्वं माता त्वं दयित तनयस्त्वं प्रियसुहृत्
            त्वमेव त्वं मित्रं गुरुरसि गतिश्चासि जगताम्  ।
त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं
प्रपन्नश्चैवं सत्यहमपि तवैवास्मि हि भरः  ।।60।।

जनित्वाहं वंशे महति जगति ख्यातयशसां
शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम्  ।
निसर्गादेव त्वच्चरणकमलैकान्तमनसा-
मधोऽधः पापात्मा शरणद निमज्जामि तमसि  ।।61।।

अमर्यादः क्षुद्रश्चलमतिरसूयप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः  ।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधे-
रपारादुत्तीर्णस्तव परिचरेयं चरणयोः  ।।62।।

रघुवर यदभूस्त्वं तादृशो वायसस्य
 प्रणत इति दयालुर्यच्च चैद्यस्य कृष्णः  ।
प्रतिभवमपराद्धुर्मुग्धसायुज्यदोऽभू-
र्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ।।63।।

ननु प्रपन्नस्सकृदेव नाथ तवाहमस्मीति च याचमानः  ।
तवानुकम्प्यस्स्मर्तः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते  ।।64।।

अकृत्रिमत्वच्चरणारविन्दप्रेमप्रकर्षावधिमात्मवन्तम् ।
पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमचिन्तयित्वा ।।65।।


इति यामुनमुनिविरचितं स्तोत्ररत्नं सम्पूर्णम्।