विद्वत्परिचयः 2

आनन्द कुमार श्रीवास्तव

प्रो. आनन्दकुमारश्रीवास्तवमहोदयाः 1954 ईषवीये वर्षे वाराणस्यां लब्धजन्मानः वैदिकवाङ्मयस्य प्रथितयशस्काः आचार्याः सन्ति। वेदविद्वद्वरिष्ठानां प्रो. वीरेन्द्रकुमारवर्ममहोदयानामन्तेवासिनः एते काशीहिन्दूविश्वविद्यालयतः संस्कृतविषये एम.ए., पी-एच.डी. चेत्युपाधिद्वयं सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतश्च वेदाचार्योपाधिं चाधिगम्य त्रिंशद्वर्षेभ्यः काशीहिन्दूविश्वविद्यालयीये संस्कृतविभागे अध्यापनकार्यं सम्पादयन्ति। सम्प्रति संस्कृतविभागे प्रोफेसरपदमलंकुर्वाणानाम् प्रो. श्रीवास्तवमहोदयानां सन्निर्देशने वेद-साहित्य-दर्शनादिविषयेषु विंशत्यधिकाः शोधच्छात्राः पी-एच.डी. शोधपाधिं सम्प्राप्य विविधेषु शैक्षणिकसंस्थानेषु कार्यरताः सन्ति।
तैत्तिरीयप्रातिशाख्य-ऋग्वेदभाष्यभूमिकादिग्रन्थान् बहूनि शोधपत्राणि च विलिख्य, व्याख्याय, सम्पाद्य च एभिः संस्कृतवाङ्मयश्रीवृद्धिर्विहिता। भूयांसि सम्मेलनानि, संगोष्ठीसत्राणि शैक्षणिकानुष्ठानानि च संयोज्य, सहस्राधिकांश्च छात्रानध्याप्य निरन्तरं संस्कृतसेवां वितन्वानाः प्रो. श्रीवास्तवर्याः वैदिकवाङ्मयस्य प्राच्य-पाश्चात्त्योभयविज्ञानवैशारदीनिष्णाताः शैक्षणिकप्रशासनेऽपि बहूनि पदानि अलंकृतवन्तः।
महर्षिसान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानसमितौ भारतसर्वकारेण नियुक्ताः 1995 वर्षे उत्तरप्रदेशसंस्कृतसंस्थान -द्वारापुरस्कृता अपि संजाताः। 

कमला पाण्डेया  

डा. कमलापाण्डेय महोदया 28.03.1950 तमे वर्षे जनिं लेभे। डा.. पाण्डेया सारस्वतसाधनामेव जीवनस्य मूलं मन्वाना वाराणस्याम् उच्चशिक्षाम् (स्नातकोत्तरं, साहित्याचार्यं, पी.एच.डी. इति) उपलभ्य प्रो. सिद्धेश्वर भट्टाचार्य, पं. विश्वनाथ शास्त्री दातार, पं. विश्वनाथ शास्त्री दातार, पं. वायुनन्दन पाण्डेय-प्रभृतिभ्यः मूर्धन्यमनीषिभ्यः पारम्परिकरूपेण शास्त्रणाम् अध्ययनं कृतवती। वसन्तकन्या महाविद्यालये 1976 ई. तः अध्यापनकार्यं कुर्वती संस्कृतमातृमण्डलम् समितिं संस्थाप्य नारीषु संस्कृतस्य पुनर्जागरणपुरस्सरं ताः सांस्कृतिकबोधाय प्रेरितवती।
रक्षतगङ्गाम्, भगवानशङ्कराचार्य आविर्भूयात् पुनर्भुवि, धरा कम्पते-इति मौलिक-रचनाभिः, सार्धम् आदि शंकराचार्य के शास्त्रर्थइति यूजीसी परियोजनान्तर्गतं शोधपूर्णं समीक्षणम्, ‘व्याख्याकारों की दृष्टि से कालिदास वाङ्मय समीक्षात्मक अध्ययन’, संसिद्धि प्रो. सिद्धेश्वर भट्टाचार्य और शास्त्र परम्पराइति ग्रन्थानपि प्रणिनाय। लघुसिद्धान्तकौमुद्याः पञ्चाननी व्याख्या, छन्दोद्धारः दण्डक छन्द के विशेष सन्दर्भ में, बाँसुरी-इति ग्रन्थानां लेखने सन्नद्धा वर्तते। छन्दोगान इति पुस्तिकया सह छन्दोगान डी.वी.डी. इति प्रस्तूय सप्रयोग व्याख्यानस्य आधुनिकविधाम् अपि प्रस्तौति। एषा विविधपत्रपत्रिकायां 21 शोधनिबन्धाः लिखिताः।
डा.. पाण्डेय अनेकैः पुरस्कारैश्च पुरस्कृता। तद्यथा-
विद्याश्री पुरस्कारः                                    विद्या श्री धर्मार्थ न्यासः काशी               (2011)
गंगारत्न सम्मानम्                                     गङ्गा साहित्य परिषद् वाराणसी,          (2007)
साक्षी चेता सम्मानम्                                 कर्णपुरम्                                          (2000)
विशिष्टग्रन्थलेखन सम्मानम्                         सम्पूर्णानन्द सं.वि.वि. वाराणसी            (2001)
आदिशङ्कराचार्यपुरस्कारः                          अखिल भारतीय विद्वत्परिषद्               (2007)
कालिदास पुरस्कारः                                   अखिल भारतीय विद्वत्परिषद्               (2009)
महर्षि कृष्ण द्वैपायन व्यास पुरस्कारः              अखिल भारतीय विद्वत् परिषद्,            (2014)
साहित्य पुरस्कार                                       उ.प्र.  . संस्कृत संस्थानम्                    (2009)
सद्यः (16.2.2013) जगद्गुरु विश्वाराध्य-ज्ञानसिंहासन-पीठम् जंगमबाड़ी मठ-श्री ब्रजवल्लभ द्विवेदी शैवभारती पुरस्कारेण (11000/-) पुरस्कृता।
किञ्च वाकोवाक्यं सम्मानं, विद्योत्तमा सम्मानं, शान्तिसम्मानम्, हेरिटेज पर्यावरण चेतना सम्मान, प्रभृतिसम्मानेनापि सम्मानिता। 

मान सिंहः         

प्रो. मानसिंहैः 1937 तमे ख्रीष्टीये संवत्सरे जनवरीमास्य तारिकायां रुढ़कीनाम्न्युपजनपदे स्थितस्य टोड़ाकल्याणपुराभिधस्य ग्रामस्य वास्तव्यानां श्रीमतीमनसादेवीति धर्मवदार्याणां श्रीनन्तासिंह इति पुण्यनामाक्षराणां सुविमलयशसां पितृपादानां ज्येष्ठतनयत्वेन जानिर्लब्धा। प्राथमिकी शिक्षा प्रथमन्तु स्वग्रामस्य एव विद्यालये, देशविभाजनान्तरञ्च खंजरपुरनाम्न्युपनगरे विद्यमाने एकस्मिन् विद्यालये सम्प्राता। तदनन्तरञ्च षष्ठ्याः कक्षाया आरम्भ द्वादशीकक्षापर्यन्तं रुड़कीनगरस्थ ब्राह्मणसंस्कृतमहाविद्यालयेऽधीतवान्-स्नातक- स्नातकोत्तरञ्च सनातनधर्ममहाविद्यालये मुज़फ्फ़रनगस्स्थेऽधीत्योत्तीणे। तदनन्तरं पी-एच.डी. इति शोधोपाधिः लब्धान्ताराष्ट्रियप्रख्यातीनां प्रो.  सूर्यकान्तशास्त्रिणां प्रो. सिद्धेश्वरभट्टाचार्यणाञ्च निर्देशकत्वे वाराणसीनगरस्थे काशीहिन्दूविश्वविद्यालये शोधकार्यं विधाय प्राप्तः डिप्लोमापरीक्षा (शर्मण्यभाषासाहित्यविषये) वेदाचार्यपरीक्षा च हिमाचलप्रदेशविश्वविद्यालयाच्छिमलानगरस्थात् समुत्तीर्णे।
अलीगढ़विश्वविद्यालये प्रवक्तृत्वेन बड़ौतस्थे दिगम्बरजैन स्नातकोत्तरमहाविद्यालये हिमाचलप्रदेशविश्वविद्यालये एतेषां निर्देशने 24  अनुसन्धातारः पी-एच.डी. इति शोधोपाधिं 45 च एम.फिल्-इति शोधोपाधिं प्राप्तवन्तः। नैकेषु विश्वविद्यालयेषु विषयेषु विशिष्टव्याख्यानानि प्रदत्तानि।
एतेऽनेकेषु प्राशसनिकेष्नपि पदेषु कार्यं कृतवान्। यथा हिमाचलप्रदेशविश्वविद्यालये, गुरुकुलकाँगड़ीविश्वविद्यालये कुरुक्षेत्रविश्वविद्यालये च संस्कृतविभागाध्यक्षं कुरुक्षेत्रमविश्वविद्यालयस्य प्राच्यविद्यासङ्कायस्याधिष्ठातृत्वं, संस्कृतप्राच्यविद्यासंस्थानस्य महर्षिदयानन्दवैदिकाध्यनकेन्द्रस्य च निदेशकत्वं, मात्रकल्याणविभागस्याधिष्ठातृत्वं, शैक्षणिकीपरिषदः कार्यकारिणीपरिषदश्च सदस्यमपि निर्व्यूढम्। विविधानां विश्वविद्यालयानां शिक्षाचयनादिसम्बद्धानां समितीनां सम्मानितः सदस्यः अपि एते आसन्।
एतेषां प्रकाशिताः प्रमुखग्रन्थाः विद्यन्ते-सुबन्धु एण्ड दण्डिन्’ ‘सुबन्धु’  ‘द उपनिपदिक एटीमाॅलाॅजी’ ‘अमृतसन्दोह ’(लेखसङ्ग्रहः, दिल्ली, 1995); ‘हिन्दू धर्म’ (दिल्ली, 1984); च। एतदतिरिक्तं, ‘‘वैदिक-वाङ्मये-विप्रा’, ‘साहित्य तथा साहित्यालोचन’, ‘निरुक्तपरिशीलनचेति त्रयो ग्रन्थाः प्रकाशिताः। विविधासु शोधपत्रिकासु च अनया प्रायः 70 शोधलेखाः, 20 ग्रन्थसमीक्षाश्च प्रकाश्यं नीताः, आकाशवाणीतश्च 35 वार्ताः प्रसारिताः।
एभिः राष्ट्रपति-सम्मानः (सम्मानप्रमाणपत्रम्, दिल्ली, 1997); विशिष्ट-संस्कृत-विद्वान् (कुरुक्षेत्र-विश्वविद्यालयः कुरुक्षेत्रम्, 1999); विशिष्ट-वेदवेदाङ्ग-विद्वान् (श्रीसान्दीपनि-वेद्वविद्या-प्रतिष्ठानम् उज्जयिनी, 2003); वाग्विदांवर-सम्मानः (हिन्दी-साहित्यसम्मेलनम्, प्रयागः, 2009); विशिष्ट-संस्कृत-विद्वान् (हरियाणा-संस्कृत-अकादमी, चण्डीगढम्, 2013); ‘साहित्यशिरोमणिः’ (भारतीय-वाङ्मय पीठम्कोलकाता, 2014); विशिष्टपुरस्कारः (उत्तरप्रदेश-संस्कृत-संस्थानम्, लखनऊ, 2009) च। ) च प्राप्ताः। 

डा. सुशीलकुमार पाण्डेयः

कारयित्री-भावयित्रीप्रतिभासम्पन्नःसाहित्येन्दुःउपनाम्ना विश्रुतः महाकविः डा.0 सुशीलकुमारपाण्डेयः गोरखपुरस्थ भिलोरा ग्रामे 15-07-19520 तमे ईसवीये वर्षे सुरतिदेव्याः कुक्षौ जनिं लेभे। पाण्डेयवर्यस्य पितुर्नाम श्री सुमिरनपाण्डेयः। असौ दीनदयालउपाध्यायगोरखपुरविश्वविद्यालयतः 19720 तमे ईस्वीये संस्कृतविषयमधिकृत्य स्नातकोत्तरपरीक्षां उत्तीय्र्य 1979 तमे ईस्वीये पी-एच.डी. उपाधिं प्राप्तवान्। 16-10-1973 तमे ईस्वीये संत तुलसीदासमहाविद्यालये कादीपुरसुलतानपुरस्य संस्कृतविभागे प्रवक्ता जातः। सम्प्रति स्नातकोत्तरविभागे उपाचार्यः श्शोधपर्यवेक्षकश्च अस्ति। अद्यावधि त्रयोदशग्रन्थानां रचयितुः विलुप्तज्ञानस्य नवीनक्षितिजानां गवेषकः साहित्येन्दुमहाभागस्य प्रतीक्षाकौण्डिन्य’, ‘अगस्त्य’, ‘शब्द कहे आकाश’, विश्रुतानि ग्रन्थानि सन्ति। कौण्डिन्य, अगस्त्य हिन्दी महाकाव्यद्वये भारतराष्ट्रस्यपुराकालिकसांस्कृतिकराजनैतिकार्थिकसम्बन्धानां सम्यक्रुपेण वर्णनं दृश्यते। सन्दर्भितमहाकाव्यद्वये अन्ताराष्ट्रियमहत्वप्राप्तकौण्डिन्यमहाकाव्ये विश्वशान्तिः, सद्भावना, जनसेवायाः यादृग् वर्णनं कविना कृतं तादृक् अन्यत्र न दृश्यते। भारतदक्षिणपूर्वएशियायाः प्राचीनसांस्कृतिकसम्बन्धानां उल्लेखनीयं बहुमूल्यपत्रलेखः (दस्तावेजः) अस्ति।  महाकाव्यद्वयमधिकृत्य महाकविः बहुशः सम्मानितः, उत्तरप्रदेशसर्वकारेण मा0 मुख्यमन्त्रिणा 2013 तमे ईस्वीये तुलसीसम्मानेन सम्मानितः, मानवाधिकारविकासक्षेत्रे मानव अधिकार सहस्राब्दि सम्मानः 2007 तमे ईस्वीये नव दिल्लीतः प्राप्तः। प्रशस्तिपत्राणां सम्मानानां च संख्या सम्प्रति पञ्चनवतिः अस्ति।
संस्कृतवाङ्मये उत्कृष्टसेवार्थं सुलतानपुरजिला आर्यउपप्रतिनिधि-सभामाध्यमेन सम्मानितः अभिनन्दितश्च। विदुषानेन संस्कृतभाषासाहित्यस्य प्रचाराय प्रसाराय च कालिदासग्रन्थावली-व्यावहारिकसंस्कृतप्रशिक्षक-पौरोहित्यकर्मप्रशिक्षकादि विविधग्रन्थानां संस्कृतानुरागिजनेषु वितरणं कृतम्। संस्कृतस्य सतत् प्रचारप्रसारार्थं छात्रेषु कृतं विशिष्टयोगदाननिमित्तं सरस्वती विद्यामन्दिर इण्टर कालेज झारखण्ड, कादीपुर, सुलतानपुरस्थ प्रधानाचार्येणप्रशस्तिपत्रमपि प्रदत्तम्। गोरखपुरस्थ ‘‘महाराणाप्रताप-स्नातकोत्तर महाविद्यालय जंगलघूसड़’’ परिसरे आयोजिते राष्ट्रीयसंगोष्ठ्यां संस्कृतसाहित्ये विशिष्टयोगदानाय सरस्वती सम्माननमभिनन्दनपत्राभ्यामभिनन्दितः।
जनेषु संस्कृतस्य व्यावहारिकप्रयोगविषयकोद्बोधनं संस्कृतसम्भाषणक्षेत्रेषु विविधदशदिवसीयसंस्कृतसम्भाषणशिविरेषु संस्कृतसम्भाषणशिविराणामायोजनं कारयित्वा प्रतिभागिषु अनेकशः संस्कृतविषयकव्यावहारिकलोकप्रचलितशब्दानां प्रयोगविषयकपरिचर्चादिकार्ये संस्कृतप्रसारे डा.0 पाण्डेयस्य  विशेषाभिरूचिरस्ति।
संस्कृतभाषासाहित्यस्य प्राध्यापकशोधनिर्देशकरुपेण षोडशशोधप्रबन्धानां निर्देशनम् विहितम्।
उत्तराखण्डसर्वकारेण संस्कृतं राज्यस्य द्वितीयराजभाषां स्वीकृते सति  संस्कृतस्य प्रचारप्रसाराय पाण्डेयमहोदयेन स्वसंस्कृतानुरागं प्रदर्शयन् 3380 हस्ताक्षरात्मकं 156 पृष्ठात्मकं पत्रं मुख्यमन्त्रिणे प्रेषितवान्।

डा. नवलता       

अनेकग्रन्थानां लेखिका परःपञ्चत्रिंशद्वर्षेभ्यः संस्कृतसेवार्थं समर्पिता डा. नवलता 10 जून 1955 ईसव्यां लखनऊनगरे जनिं लेभे। अस्याः पितुर्नाम स्वनामधन्याः शिवशंकर श्रीवास्तवः अथ च मातुः नाम अञ्जना श्रीवास्तव आसीत्। माध्यमिक-उच्चतरमाध्यमिकपरीक्षयोः संस्कृतविषये विशेषयोग्यतां प्राप्य 1973 तमे वर्षे लखनऊविश्वविद्यालयतः बी.ए. परीक्षामुत्तीर्य विश्वविद्यालये तृतीयस्थानं प्राप्तवती। 1975 तमे ईसयाब्दे लखनऊ विश्वविद्यालयतः संस्कृतविषये दर्शनवर्गे विशेषदर्शनरूपेण शैवदर्शनमधीत्य प्रथमश्रेण्याम् एम.ए. परीक्षा उत्तीर्ण। पुनः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः 1977तमे वर्ष साहित्यविषये च 1980तमे वर्ष प्राचीनव्याकरणविषय आचार्यपरीक्षे प्रथमश्रेण्यामुत्तीर्णे। 1983 तमे वर्षे लखनऊ विश्वविद्यालयतः ‘‘भारतीय दर्शन में सम्बन्धमीमांसा’’ इति  विषयमधिकृत्य पीएच.डी. उपाधिर्लब्धा। अनौपचारिकरूपेण हैदराबादस्य व्याकरणविद्वद्भ्य आचार्यधर्मानन्दशास्त्रिभ्यः अष्टाध्यायिपद्धत्यापि व्याकरणमधीतवती।
अष्टादशवर्षीयवस्यस्थायिरूपेण लखनऊस्थितायां जगन्नाथसाहुपाठशालायां  संस्कृताध्यापनमारब्धवती। तदनु लखनऊस्थितायां शिवप्रसादसंस्कृतपाठशालायां नियुक्ता किन्तु शीघ्रमेव तत्त्ववत्त्वा शिक्षणप्रशिक्षणार्थं गता। एकाशीतितमे वर्षे उत्तरप्रदेशसंस्कृत-अकादम्यां कालिदासग्रन्थावल्याःसम्पादनकार्ये सहयोगार्थं दैनिकवृत्त्या कार्यं कृतवती। अथ संस्कृतपाठशाला इण्टर काॅलेज लखनऊ आर्यकन्यामहाविद्यालय हरदोई चेत्येतयोः शिक्षासंस्थानयोः प्रवक्तृपदे कार्यं कृत्वा 1987 तमाद्वर्षाद् विक्रमाजीतसिंहसनातनधर्ममहाविद्यालय, कानपुरे प्रवक्तृपदे कार्यं कुर्वन्ती सम्प्रति एसोसिएट प्रोफेसर/विभागाध्यक्षपदे विराजते। एतस्याः पर्यवेक्षत्वे संस्कृतसाहित्यस्य विविधपक्षानधिकृत्य नव शोधार्थिनः पी-एच. डी. उपाधिं लब्धवन्तः।
परः त्रिंशद्वर्षेभ्यः दूरदर्शनेनाकाशवाण्या च महोदयायाः काव्यपाठः वार्ता परिचर्चादिकं बहुशो प्रसार्यन्ते। डा. नवलतया विरचिततेषु द्वादशग्रन्थेषु प्रत्यूषमिति कवितासंग्रहः संस्कृतसाहित्ये जलविज्ञानम्’ ‘संस्कृतवाङ्मये कृषिविज्ञानम्’ ‘मेधामन्थश्चेति शोधपरकग्रन्थाः जयन्तु कुमाॅउनीयाः’ (सम्पादितम्) च प्रमुखायन्ते। अजस्रा, आन्वीक्षिकी, संस्कृतमंजरी, संस्कृतसर्जना, प्राच्यविद्यानुसन्धानम्, वेदविद्या, गवेषणा, परिशीलनम्, भारतीमन्दारः, गाण्डीवम्, सुसंस्कृतम्, सङ्गमनीत्यादिषु विविधपत्रिकास्वनया लिखिताः परःशता मौलिकचिन्तनपराः शोधपराश्च निबन्धाः कविताकथादयश्च प्रकाशिताः सन्ति। विशेषतः संस्कृतवाङ्मयस्य विज्ञानपरकविश्लेषणे नवलतामहोदयायाः मुख्योऽभिनिवेशो वर्तते।
डा. नवलता महोदया छात्रजीवनादेव सम्भाषणसमस्यापूर्तिकवितानिबन्धादिविषयकैः विविधैः स्थानीयैः प्रादेशिकैश्च पुरस्कारैः सम्मानितायाः अस्याः ग्रन्थत्रयं दिल्लीसंस्कृत अकादमीतः उत्तरप्रदेशसंस्कृतसंस्थानतश्च पुरस्कृताः। संस्कृतसेवार्थमखिलभारतीयसंस्कृतसम्मेलनं दिल्ली, स्वामीभास्करानन्दशोधसंस्थानम्, कानपुरम् प्रोत्साहनसमितिः, औरैया इत्यादिसंस्थाभिः सम्मानिता। 

प्रशस्यमित्रः शास्त्री         

डा. प्रशस्यमित्रशास्त्रिणः जन्म बिहारप्रान्तस्थ-सीवानजनपदे 01.07.1949 ईशवीयाऽब्दे बभूव परन्तु शैशवकालादेव ते कानपुरनगरे स्वकीयपितृभ्यां समं प्रतिष्ठिताः। तेषां जनकाः पं. श्री जगन्नाथ प्रसाद शास्त्रिणः आर्यसमाजस्य पुरोहिताः संस्कृतज्ञाश्च आसन्।
डा. प्रशस्यमित्रशास्त्रिणः प्रारम्भिकी संस्कृतशिक्षा फैजाबादस्थे अयोध्यागुरुकुलमहाविद्यालये बभूव। तदनन्तरं ते वाराणस्यां दशवर्षपर्यन्तं पं. श्री ब्रह्मदत्तजिज्ञासुमहोदयानाम् अन्तेवासित्वे व्याकरण-निरुक्तादि शास्त्रणाम् अध्ययनं कृतवन्तः।
वाराणसेयसंस्कृतविश्वविद्यालयादेव शास्त्री-आचार्यादिपरीक्षा प्रथमस्थानपूर्वकम् उत्तीर्य कानपुरविश्वविद्यालयतः एम.ए. परीक्षायां चतुःस्वर्णपदकं प्राप्तवन्तः। महात्मागांधीकाशीविद्यापीठात् पी-एच.डी. उपाधिम्प्राप्य अष्टचत्वारिंशद्वर्ष-पर्यन्त्तं फीरोज-गांधी-स्नातकोत्तर-महाविद्यालये संस्कृतविभागे सेवारताः आसन्। 2011 तमे वर्षे ते सेवानिवृत्ताः। डा. शास्त्रिणः निर्देशने अनेके छात्राः कानपुरविश्वविद्यालायतः शोधोपाधिं प्राप्तवन्तः।
डा. प्रशस्यमित्रशास्त्रिणः संस्कृतभाषायाः प्रख्यातकवयः वर्तन्ते। हास्य-व्यंग्यक्षेत्रे तेषां व्यंग्यरचना व्यंग्यार्थ-कौमुदी’’ मध्यप्रदेशस्य कालिदाससंस्कृत अकादमी उज्जैन द्वारा अखिलभारतीयकालिदासपुरस्कारेण 2008 वर्षे पुरस्कृता। ‘‘हासविलास’’ इति ग्रन्थश्च उत्तरप्रदेश संस्कृत संस्थान द्वारा विशेषपुरस्कारेण पुरस्कृतः।
डा. शस्त्रिणः संस्कृतकथासंग्रहः अनभीप्सितम्इति साहित्य अकादमी पुरस्कारेण पुरस्कृतः सम्मानितश्च। ‘‘अनाघ्रातं पुष्पम्’’ इति कथा संग्रहश्च दिल्ली संस्कृत अकादमी द्वारा पुरस्कृतः।
तेषाम् अन्याः रचनाश्चाऽपि तद्यथा-कोमलकण्टकावलिः, संस्कृतव्यंग्यविलासः, आषाढ़स्यप्रथमदिवसे प्रभृतयः उत्तरप्र्रदेश संस्कृतसंस्थानस्य विविधपुरस्कारणे पुरस्कृताः। डा. शास्त्री राजस्थान-संस्कृत-उत्तरप्रदेश अकादमी द्वाराऽपि पुरस्कृतः।
2013 वर्षस्य स्वाधीनतादिवसाऽवसरे ते भारतवर्षस्य महामहिम राष्ट्रपति महोदयेनाऽपि सम्मानिताः पुरस्कृताश्च। 

सूर्यादेवी चतुर्वेदा           

प्राचीन-आर्षपरम्पराया अध्ययनाध्यापने रता वैदिकवाङ्गमयस्य मर्मज्ञा लब्धख्यातिः विदुषी डा. सूर्यादेवी सोरो क्षेत्रे प्रह्लादपुराख्ये ग्रामे 1958 तमे वर्षे जनिं लेभे। एतस्याः पितरौ श्रीमुतित्रिवेणीदेवी श्री लखनसिंह आर्यश्च वेदनिष्ठौ राष्ट्रभक्तौ संस्कृतरक्षकौ चेति।
अस्या आरम्भिकक्षिक्षा आर्षपद्धतेः शिक्षाव्यवस्थामभिलक्ष्य पितृपादेन संस्थापिते स्वस्मिन्नेव ग्रामे स्थिते श्रीमतीचन्द्रावती आर्यकन्यापाठशालागुरुकुले अभवत्। दशवर्षात्मके वयसि डा. प्रज्ञादेव्याः आचार्यामेधादेव्यश्चि सान्निध्ये वाराणसीस्थे पाणिनीयकन्यमहाविद्यालये पित्रा प्रेषिता सूर्यादेवी पाणिनिगुरुकुलस्य प´्चमी ब्रह्मचारिणी जाता। 1982 तमवर्षं यावत् अष्टाध्यायी काशिकामहाभाष्यम् निरुक्तं ब्राह्मणदर्शनश्रौतादि विषयकं च गहनमध्ययनं कृत्वा सम्पूर्णानन्द- विश्वविद्यालयवाराणसीतः शास्त्री, आचार्य, चतुर्वेदादि परीक्षाः अजमेरतः एम.ए. परीक्षां चोत्तीर्य पाणिनीयकन्यामहाविद्यालयतः व्याकरणसूर्या इत्युपाधिम् अर्जितवती। जयपुरतः विद्यावादिधिरित्युपाधिमपि प्राप्तवती।
पितुः आदेशं परिपाल्य सेवावृत्तिं न स्वीचकार। आचार्यप्रज्ञादेव्याः वचनानुसारेण च पाणिनीयकन्यामहाविद्यालयस्य स´्चालनव्रतं इदानीमपि कृतसङ्कल्पतया परिपालयति। षट्त्रिंशद्वर्षेभ्यः (1978-2009) अवैतनिकरुपेण अध्यापनंकुर्वन्ती मुख्य आचार्यपदमलङ्कृतवती। सम्प्रत्यपि तत्पदं वहति एषा। कतिचिद्वर्षाणि आर्यकन्यागुरुकुलशिवग´्जेऽपि महाभाष्यादिकम् पाठितवती।
डा. सूर्यादेवी पत्रपत्रिकासु वार्तापत्रे च निरन्तरं वेदवेदाड्ंसंस्कृत सांस्कृतिपरान् लेखादीन् प्रकाश्य संस्कृतप्रचार-प्रभारार्थं वाग्व्यवहारार्थं च संस्कृतसाधनारता वर्तते। अस्याः वेदविषयकं रचनाद्वयं वेदसमाधानसमज्या’ ‘ब्रह्मवेद है अथर्ववेदइति चातिरिच्य त्रिपदी गौः स्रोत’, वेदादिसिद्धान्तशङ्का समाधान इत्यादयः चर्चितरचना सन्ति।
ब्रह्मवेद है अर्थर्ववेदपण्डितगंगाप्रसादउपाध्यायपुरस्कारेण सभाजिता वैदिकविचारधारायाः सम्पुष्ट्यै शास्त्रर्थसड्ष्ठीत्यादिषु सक्रिया डा. सूर्या देवी दिल्ली संस्कृत अकादमीतः अन्याभिः सभासंस्थादिभिश्च वेदशिरोमणिवेदवेदाङ्गपुरस्कार- आर्यविद्याभास्करादिसम्मानैः पुरस्कारैश्च सत्कृता। 

कैलाशनाथ द्विवेदी         

पं. सुदर्शनलालद्विवेदी श्रीमती सुखरानी चेत्येतयोः सुपुत्रः डा. कैलाशनाथद्विवेदी 11.01942 तमे वर्षे कानपुरदेहातजनपदस्य बैना इति नाम्नि ग्रामे जनिं लेभे। एतस्य उच्चशिक्षा कानपुरेऽभवत्। तत्रैव संस्कृतस्य साङ्गोपाङ्यमध्ययनं कुर्वन् असौ एम.ए.साहित्याचार्य साहित्यरत्नंपी.एच.डी. डी.लिट्इत्युपाधीः समर्जयत्। ततः कानपुरविद्यालयान्तर्गतं अजीतमलस्थिते जनता महाविद्यालये कौंच (जालौन) स्थिते बुंदेलखण्डविश्वविद्यालयान्तर्गतं मथुराप्रसाद स्नातकोत्तरमहाविद्यालये च क्रमशः प्रवक्तृप्राचार्यरुपेण संस्कृतच्छात्राणां निर्देशनं कृतम् 24 शोधच्छात्रेभ्यः शोधपर्यवेक्षणं च कृतवान्।
डा. द्विवेदिविरचितासु पञ्चत्वावारिंशत् कृतिषु गुरुमाहात्म्यशतकम् मृच्छकटिकपरिशीलनम्’ ‘कालिदास की कृतियों में भौगोलिक स्थलों का परिज्ञान‘, ‘ऋग्वैदिक भूगोलकाव्यमाला’ ‘नाट्यामृतम्’ ’कथाकलिका’ ‘शाकुन्तलीयम्’ ‘शाकुन्तलसौरभम्इत्यादयः प्रमुखाः सन्ति।
एतस्य विदुषः नैकाः संस्कृतकृतयः उत्तरप्रदेशसंस्कृतसंस्थानम्, दिल्ली संस्कृत अकादमी, उत्तराखण्ड-संस्कृत-अकादमी भारतीयविद्याभवनम्, विहारसर्वकार (राजभाषाविभागः) जैनविद्या संस्थानम् इत्यादिसंस्थाभिः पुरस्कृताः सम्मानिताश्च। हिन्दी साहित्यसम्मेलनम्, प्रयागद्वारा 2009 तमे वर्षे महामहोपाध्याय इति मानदोपाधिः सम्मानरुपेण प्रदत्ता।
संस्कृतभाषाया प्रचारप्रसाराय विकासाय च पञ्चत्रिंशद्वर्षेभ्यः पत्रपत्रिकासु लेखनेन शोधसड्गोष्ठीषुु भागग्रहणेन विश्वविद्यालय अनुदान आयोगस्य सहयोगेन आयोजितेषु सम्मेलनेषु शोधपत्राणां प्रस्तुत्या च बहुविधं योगदानं कृतवान्।
सम्प्रति प्राचार्यपदात् सेवानिवृत्तोऽसौ अहर्निशं संस्कृतसेवाव्रतानवधार्य सस्वस्यावासे स्थित्वा लेखनादिकार्ये संस्कृतस्य भाण्डागारं सम्बर्द्धयन्नस्ति।

कृष्ण नारायण पाण्डेय     

उत्तरप्रदेशे उन्नावजनपदे पड़री-कलाँ ग्रामे मार्गशीर्षशुक्ला सप्तम्यां 2006 विक्रमी वर्षे जन्मप्राप्तः डा. कृष्णनारायणपाण्डेय भरद्वाजः मानवस्य मूल भाषा संस्कृत प्रोत्साहने छात्रजीवनतः संलग्नः विद्यते। माताश्री कमला पिताश्री महावीर प्रसाद उपाख्य नन्हे पाण्डेय इति गृहे पारम्परिकसंस्कृतवातावरणे शिक्षितः संस्कृत, हिन्दी, इतिहास, पुराण, जीवन विज्ञान इति पंचविषयेषु परास्नातकः विशेषतः सम्पूर्णानन्द संस्कृत विश्व विद्यालय काशी तः प्रथम श्रेणी पुराणेतिहासचार्य उपाधि प्राप्तः राम कथायाः ऐतिहासिकत्वम् शीर्षक पी-एचञ्डी. शोध प्रबन्ध हेतु सम्पूर्ण भारतस्य रामायण सम्बद्ध स्थलानाम् पर्यटनम् कृतवान।
स्व. ग्रामे शिवप्रसाद पाण्डेय इण्टरकालेजे एवं दिनांक 26.03.1977 आकाशवाणी लखनऊ मध्ये सहायकसम्पादकशैक्षिकप्रसारणे अध्यापनं, संस्कृतनाटकरूपकलेखनम् प्रस्तुतकरणम् च कृतम्। दूरदर्शने संस्कृतकाव्यपाठः प्रस्तुतः। हिन्दी-उर्दू-कवि सम्मेलनेषु सरलसंस्कृतकविता प्रस्तुति करणम् क्रियते। 1988 वर्षे आकाशवाणी पणजी-गोवा-मध्ये हिन्दी अधिकारी पदे सेवासमये स्वामी ब्रह्मानन्दतपोभूम्यां हार्तुलीआश्रमे संस्कृतसम्भाषणशिविरायोजनं कृतम्। एवमेव सहायकनिदेशक- राजभाषागृहमंत्रालये भारतसरकारेसेवापदे तिष्ठन् मुम्बई नई दिल्ली प्रवासे लोकजीवने संस्कृतसंस्कृति सम्प्रेरणं कृतम्। आकाशवाणी महानिदेशालये नई दिल्ली संयुक्तनिदेशक राजभाषादायित्वे राजकीयप्रवाससमये द्वादश ज्योतिर्लिंग, शक्तिपीठ मन्दिराणाम् शोधपूर्णा यात्रा कृता।
विश्वसंस्कृतसम्मेलनम् बंगलौर, नईदिल्ली सहितम् विश्वहिन्दीसम्मेलन न्यूयार्क 13-14-15 समारोहेषु सहभागित्वं कृतम्। महेन्द्रसंस्कृतविश्वविद्यालये नेपाले, बैंकाकविश्वविद्यालय थाईलैण्डे 2013, कैलाशमानसरोवरे (तिब्बत चीन) 2014 तमे वर्षे विदेशे शोधयात्रा कृता।
1975 ई. तः प्रभातम् संस्कृतसमाचारसेवामाध्यमेन संस्कृते शताधिकशोधपत्रप्रकाशनं कृतम्। एभिः मानवता विजयम्, मार्को पोलो दृष्टम भारतम् स्वस्थ्यसंस्कृतजीवनम्, भारतस्य प्रसिद्ध पर्यटकाः, वसुधैव कुटुम्बकम, मानवता यात्रा, स्नेहसम्वादः, रामायणकालिकेतिहासः, नयन दृष्टम् ऐतिहासिकम् भारतम् सत्यमेव जयते, स्वराष्ट्राय स्वाहा सर्वम्, गोस्वामी संघे शक्तिः सर्वदा उपन्यासः, वैदिक सरस्वती सिन्धु सभ्यता सदृश 35 ग्रन्थानां प्रकाशनम् कृतम्। वानाप्रस्थाश्रमे वर्ष 2010 तः वेद-मानवधर्म-शास्त्र-मनुस्मृति-रामायण-महाभारत-पुराण साहित्य स्वाध्यायज्ञान सत्रं वाल्यते।
एभिः राष्ट्रियसंस्कृतसंस्थान नईदिल्ली द्वारा शास्त्रचूड़ामणि योजना अन्तर्गतम् दिनांक 6.7.2014 पर्यन्तं वर्षद्वयम् शोधकार्यं कृतवन्तः। इण्डियनहिस्ट्रीकांग्रेस, प्राच्यविद्यासंस्थान अधिवेशनेषु सिन्धुसभ्यतालिपिः न्ब्त्रच्ज्त्र पट इति प्राचीन ब्राह्मी सिद्धान्तानुसारम् वेदमंत्र, रामायण, महाभारत पुराण नाम समुद्वाचनंकृतम्। दिल्ली संस्कृत/अकादमी द्वारा संस्कृतगद्य लेखनप्रथमपुरस्कारसहितम् 5 पुरस्काराः तथैव उत्तरप्रदेशसंस्कृतसंस्थान द्वारा पुरस्कार द्वयम् प्राप्तम्। वसुधैवकुटुम्बकम् क्रियान्वयन प्रभातम् संस्कृत पत्रम् दैनिक, मानवता कुलम् तथा विश्वकवि संसदसंस्थापक डा. पाण्डेय द्वारा ब्रह्मावर्त विठूरम् तथा नैमिषारण्यम् संस्कृतभाषी क्षेत्र निर्माणार्थम् अभियानम् चाल्यते। 

प्रभुनाथ द्विवेदी  

उत्तरप्रदेशस्य मीरजापुरमण्डलस्यैकस्मिन् ग्रामे कृषिकर्मपरायणे सदाचारनिष्ठविप्रवंशे 1947 तमस्य ख्रिष्टाब्दस्यागस्तमासस्य पञ्चविंशतितमे दिनांके लब्धजन्मनो डा. प्रभुनाथद्विवेदिनोमातुर्नाम स्वञ्श्रीमती रामकुमारीद्विवेदी पितुश्चाभिख्या
स्व. पण्डितनन्दकिशोरद्विवेदी अस्ति। अयं प्राथमिकशिक्षां ग्रामविद्यालये, माध्यमिशिक्षां मीरजापुरनगरे उच्चशिक्षाञ्च वाराणसीनगरे लब्धवान्। आशैशवात्साहित्यिकरुचिसम्पन्नोऽयं प्रतिभाशाली छात्रः परीक्षासु लब्धोच्चश्रेणीकः छात्रवृत्तिमर्जितवान्। वाराणसीस्थकाशीविद्यापीठमिति विश्वविद्यालयतः संस्कृतविषयमधिकृत्य सर्वोच्चैरङ्कैः प्रथमश्रेण्यां एम.ए., इति परीक्षामुत्तीर्य विश्वविद्यालय अनुदान-आयोगतः कनिष्ठ शोध वृत्तिं समवगाय संस्कृतिकविभागाध्यक्षस्य विद्वद्वरेण्यस्य
प्रो. अमरनाथपाण्डेयमहानुभावस्य सन्निर्देशने शोधकार्यं विधाय पी-एच.डी.इत्युपरधिमधिगत्वान्।
ततो बलरामपुरस्थ म.ला. कुँ स्नातकोत्तरमहाविद्यालये प्राध्यापकपदे नियुक्तोऽघापनं समारभत। अथ च, वाराणस्यां काशीविद्यापीठस्य संस्कृतविभागे प्राध्यापकारूपेणाध्यापनमारभ्य क्रमशस्तत्रैवोपा चार्यपदे च प्रोन्नति समुपलभ्यान्ततः 2010 तमस्य ख्रिष्टाब्दस्य जूनमासस्य 30 तमे दिनाङ्के त्रयस्त्रिंशद्वर्षीयाऽध्यापनसेवातो निवृत्तः। सेवानिवृत्तेरनन्तरमपि प्रो. द्विवेदी देशस्य नैकेषु विश्वविद्यालयेषु विजटिंग फेलोअपि च विजिटिंग प्रोफेसरइति पदमलङ्कृतवान्।
विश्वविद्यालयस्य सर्वोत्तमशिक्षकपुरस्कारेण सभाजितः सदाचारपरायणः कर्मनिष्ठः सुयोग्यः शिक्षकः प्रो. प्रभुनाथद्विवेदी नानाप्राशासनिक पदानि महता कौशलेन निव्र्यूढवन्। साहित्यसाधनया सदैव संस्कृतस्य प्राचरप्रसारविधिष्वपि मनोयोगपूर्वकं प्रयत्नपरोऽयं मनीषी राष्ट्रियास्वन्ताराष्ट्रियासु च विद्वद्गोष्ठीषु सार्द्ध शतसंख्याकानि शोधपत्राणि विशिष्टव्याख्यानि। च प्रस्तुतवान्। डा. द्विवेदी विश्वविद्यालया अनुदान आयोगस्य वित्तीयसाहाय्येन बृहच्छोधपरियोजना अपि पूरितवान्।
प्रो. प्रभुनाथद्विवेदिप्रणीतानां समीक्षात्मकानां स्वोपज्ञानाञ्च ग्रन्थानां संख्या चत्वारिंशामिता (40) वर्तते। आम्रचार्य जयरथकृतस्य-अलङ्कारोदारहरणम्इति ग्रन्थस्य द्वे पाण्डुलिपी अन्विष्य तयोर्विमर्शपूर्वकं संस्कृतटीकानां सम्पादने निरतोऽस्ति।
अधुना संस्कृतजगति प्रो. प्रभुनाथद्विवेदी गद्यकाव्यप्रणयने विशिष्टते। श्रीरामानन्दचरित्रमित्येकः संस्कृतोपन्यासोऽपि च, ‘कथा कौमुदी’ ‘श्वेतदूवा’, ‘अन्तध्र्वनिः कनकलोचनश्चेति चत्वारः संस्कृतकथासङ्ग्रहाः प्रकाशिताः पुरस्कारैश्च समाजिताः सन्ति। तत्र लक्षरुप्यकालकौ श्रीरामानन्दाचार्यपुरस्कार-साहित्य-अकादमीपुरस्कारौ, बाणभट्टपुरस्कारादयो नैके पुरस्काराः ससम्मानं विभिन्नसंस्थाभिरस्मै प्रदत्तः।

बृजेश कुमार शुक्ल         

अखिलदेववाणीवाङ्मये विश्रुतकीत्र्तयः सर्वशास्त्रेष्वप्रतिहतगतयो वेदसाहित्यपुराणज्योतिष-तन्त्रव्याकरणदर्शनकाव्यशास्त्रादिविषयेषु कृतभूरिपरिश्रमाः प्रो. बृजेशकुमारशुक्लमहोदयाः अक्टूबरमासस्यैकतारिकायां द्वाषष्ट्युत्तरैकोनविंशतिशततमे ख्रिस्ताब्दे (01.10.1962) उत्तरप्रदेशान्तर्गते बाराबंकी च जनपदस्थे त्रिलोकपुरग्रामे पूज्यपादयोः श्रीचन्द्रकलाप्यारेलालशुक्लयोः मातापित्रोः शोभने गृहे जन्म लेभिरे।
संस्कृतव्याकरणसाहित्ययोः प्रारम्भिकं ज्ञानं तत्र भवद्भिः स्वपितृसकाशादेवाऽधिगतम्। ततो भवन्तः प्रारम्भिकीं माध्यमिकी´्च शिक्षां स्वग्रामे एवाऽलभन्त। तत एते महानुभावा उच्चशिक्षायै लक्ष्मणपुरमागत्य लखनऊविश्वविद्यालयात्स्नातकस्नातकोत्तरादिपरीक्षाः सर्वोच्चाङ्कैः समुत्तीर्य स्वर्णपदकान् प्राप्य विश्वविद्यालयानुदानाऽऽयोगविहितां कनिष्ठानुसन्धानाऽध्येतृवृत्तिपरीक्षां चोत्तीर्य संस्कृते विद्यावारिध्युपाधिं (पी-एच.डी.) समाधिजग्मुः।
प्रो. शुक्लमहाभागाः लखनऊविश्वविद्यालयस्य संस्कृतप्राकृतभाषाविभागे नवाशीत्युवत्तरैकोनविंशति-शततमे (1989) ख्रिस्ताब्दे प्रवक्तृपदे, एकोत्तरद्विसहस्रतमे (2001) ख्रिष्टाब्दे उपाचार्यपदेऽथ च चतुरुत्तरद्विसहस्रतमे (2004) ख्रिष्टाब्दे परमाचार्यपदे नियुक्ताः सन्तः पठनन्पाठनाभ्यां विविधसाहित्य-सर्जनकर्मणा च संस्कृतस्य श्रीवृद्धिं कृतवन्तः। अनन्तरमेभिः संस्कृते विद्यावाचस्पत्युपाधिः (डी. लिट्.) ज्योतिर्विज्ञानं च विद्यावाचस्पत्पाधिश्च (डी.लिट्) लखनऊ विश्वविद्यालयतोऽलमकारिषाताम्। तत्र भवन्तोदशोत्तरद्विसहस्रतमे (2010) ख्रिष्टाब्देऽसंस्कृतप्राकृतभाषाविभागस्याऽध्यपदमल´चक्रुः।
इदानीमपि भवन्तो लखनऊ विश्वविद्यालयस्य, ज्योेतिर्विज्ञानविभागस्य संयोजध्यक्षत्वेन सौन्दर्यशास्त्रीयशैवदार्शनिकयोरभिनवगुप्त संरचनास्य च निदेशकत्वेन कार्यं कुर्वन्तो विराजन्तेतराम्।
प्रो. शुक्लमहोदयैः पञ्चविंशत्यधिकाः ग्रन्थाः मौलिकरूपेण पाण्डुलिपिसम्पादनरूपेणाऽनुवादत्वेन काव्यादिरचनारूपेण च व्यलेखिषत्। एतेषां ग्रन्थद्वयं पुराणेषु नैमिषारण्यम्श्रीमद्भागवतमहापुराणतत्वविमर्शश्च सहलेखनसम्पादनमाध्यमेन प्रकाशितम्।
एतेषां शैक्षिकं साहित्यिकञ्च महदवदानं वीक्ष्य नैकाभिरेभ्यः पुरस्काराः सम्मानाश्च प्रदत्ताः। तेषु मुख्यतमाः सन्ति-उत्तरप्रदेश संस्कृत संस्थानत अनेके संस्कृतसहित्यपुरस्काराः  दैवज्ञश्री सम्मानः, प्रतापनारायण मिश्र स्मृतिपुरस्कारः, आचार्य शंकर पुरस्कारः, रामकृष्णान्ताराष्ट्रियसंस्कृतपुरस्कारः (कनाडादेशतः), विक्रम कालिदास पुरस्कारः (कालिदासाऽकादमीतः म.प्र.), शिक्षक श्री पुरस्कारः सरस्वती-सम्मानः (उत्तरप्रदेशसर्वकारस्य सर्वोच्च शिक्षक पुरस्कारद्वयम्), सुभद्रा कुमारी चैहान जन्मशतीसम्मानश्चेत्यादयः।
प्रो. शुक्ल महाभागैर्विविधराष्ट्रियान्ताराष्ट्रियशोधसङ्गोष्ठीषु शताधिकानि पत्राणि प्रवाचितानि। अपि च पत्रपत्रिकाषु शताधिकानि शोधपत्राणि, संस्कृतकविता, कथासमीक्षाश्चैतेषां प्राकाश्यमुपनीताः। विभिन्नसंस्कृतशोधगोष्ठीषु सम्मेलनेषु च सभाध्यक्षत्वेन, अखिलभारतीय प्राच्यविद्यासम्मेलनेषु कार्यंपरिषदः सदस्यत्वेन तत्रैव वेदसाहित्यप्राविधिक-विज्ञानदर्शनादिसत्रेषु चैत आध्यक्षं निर्व्यूढवन्तः। षष्ट्यधिकाश्छात्रच्छात्रा एतेषां निर्देशने एम.फिल्.पी-एच.डी., डी.लिट् इत्याख्योपाधिं लब्धवन्तः। एभिः संस्कृतवाङ्मयीइति नाम्नी शोधपत्रिकाऽपि सृष्ठु सम्पादि नैकवारं च संस्कृतशोधसंगोष्ठीनां समायोजनमप्यकारि।

भगवत्शरण शुक्ल          

आचार्यभगवत्शरणशुक्लः वैशाखकृष्णपक्षाष्टम्यां 2013 वैक्रमाब्दे 2 मई 1956 ख्रीष्टाब्दे मध्यप्रदेशान्तर्गतजबलपुरमण्डलस्थ कटनी जनपदसम्बद्धकोठियामोहगवाग्रामे ब्राह्मणानां शुक्लास्पदगर्गगोत्रीयब्राह्मणकुले जनिम् अलभत्। अस्य पितुर्नाम स्व.पं0 रामकृष्णशुक्लः मातुर्नाम च श्रीमती मूलादेवी इति विद्यते।
आचार्यशुक्लः प्रारम्भिकीं शिक्षां स्वकीये ग्रामे प्राथमिकपाठशालायां लब्धवान्। एकसप्तत्युत्तरैकोनविशतितमे ख्री्रष्टाब्दे सौभाग्यात् प्रयागनगरस्थश्रीरामदेशिकसंस्कृतमहाविद्यालये  प्रवेशं प्राप्य प्रथमाकक्षातः आचार्यपर्यन्तमेकाशीत्युत्तरैकोनविशंतितमखी्रष्टाब्दं  यावत्  शिक्षां लब्धवान् । एतस्य पूज्याः गुरवः आचार्याः स्व.रामवदनशुक्लाः, आचार्याः स्व. डा0 मधुकरफाटकमहोदयाः, आचार्याः स्व. शिवनाथद्विवेदिनः, आचार्याःरामकिशोरपाण्डेयाः, आचार्याः स्व.हीरालालपाण्डेयाः आसन्। एतेभ्यःशुक्लमहाभागः व्याकरणस्य, नव्यन्यायस्य, साहित्यस्य, ज्योतिषस्य च शिक्षां लब्धवान्। पराम्परातः एतस्य वेदस्य गुरवः आचार्याः हरिनाथसखारामदीक्षितमहाभागाः  आसन् । संगीतस्य च गुरवः स्व. पं0 भोलानाथप्रसन्नामहाभागाः आसन् । शोधकार्यं शुक्लमहाभागेन आचार्यगयाचरणत्रिपाठिनिर्देशने  राष्ट्रिसंस्कृतसंस्थानं गङ्गानाथझापरिसरतः सम्पादितम् । शुक्लमहाभागः शास्त्रिकक्षां 1978 ख्रीष्टाब्दे, आचार्यकक्षां 1981 ख्रीष्टाब्दे कृतवान्। तेन विद्यावारिधि इति उपाधिश्च 1988 ख्रीष्टाब्दे लब्धः। अयं व्याकरणाचार्यं नव्यन्यायशास्त्रिणंसंगीतप्रवीणंचोपाधिं लब्धवान्। शुक्लमहाभागस्य योग्यतां विलोक्य विद्यालयप्राचार्याः डा0 सनत् कुमारत्रिपाठिनः जुलाई 1980 ख्रीष्टाब्द एव प्रथमातः शास्त्रिपर्यन्तमध्यापनाय अतिथ्यध्यापकत्वेन नियुक्तवन्तः। पश्चात् विधिवच्चयनेन 1 जुलाई 1982 ख्रीष्टाब्दे श्री रामदेशिकसंस्कृतमहाविद्यालये व्याकरणविभागे प्रवक्तृपदे शुक्लमहाभागो नियुक्तिमलभत्। यत्र प्रथमाकक्षातः आचार्यकक्षापर्यन्तं कुशलतया अध्यापनकार्यंमनेन  सम्पादितम् । तस्मिन् विद्यालये छात्राणां कृते अनेके सांस्कृतिकशास्त्रार्थादिकार्यक्रमाः शुक्लमहाभागेन  सञ्चालिताः।
अनन्तरम् 22.11.1985 ख्रीष्टाब्दे व्याकरणविभागाध्यक्षपदे सौदामिनीसंस्कृतमहाविद्यालये प्रयागे नियुक्तिरभवत्। यत्र व्याकरणविभागाध्यक्षपदेन सहैव 1989 ख्रीष्टाब्दात् जून 2000 ख्रीष्टाब्दं यावत् उपाचार्यपदस्यापि कार्यभारं निरवहत् । पुनश्च 2000 ख्रीष्टाब्दे  जुलाई मासे प्राचार्यपदस्य कार्यभारं निरवहत्।  यत्रानेके सम्मेलनादिकार्यक्रमाः अनेन सञ्चालिताः । ततः सौदामिनीशोधपत्रिकापि सञ्चाल्यते । अधुनापि पत्रिकायाः सम्पादनं शुक्लमहाभागेनैव क्रियते ।  सम्प्रति 9 नवम्बर 2006 ख्रीष्टाब्दात्  8 नवम्बर 2012 ख्रीष्टाब्दं यावत् सह आचार्यपदे (एसोसिएट प्रोफेसर) काशीहिन्दूविश्वविद्यालयस्थ- संस्कृतविद्याधर्मविज्ञानसंकायान्तर्गतव्याकरण विभागे कार्यं विधाय 9 नवम्बर 2012 ख्रीष्टाब्दे आचार्यपदमलङ्कृत्याध्यापन-लेखनशोधादिकार्यं करोति । सम्प्रति फरवरी 2015 ख्रीष्टाब्दात् व्याकरणविभागाध्यक्षपदे विद्यते। अनेन सिद्धान्तकौमुद्याः कारकप्रकरणं, वाच्यत्रयविचारः, परिभाषार्थचन्द्रिका, महाभाष्यतत्त्वविमर्शः, शाब्दिकसिद्धान्तविमर्शः, रागार्णवम् , सम्बन्धविच्छित्तिरित्यादयो द्वादशग्रन्थाः विरचिताः। शुक्लमहाभागः  आकाशवाणीइलाहाबाद इति संस्थायां मार्च 1989 ख्रीष्टाब्दात्  बीग्रेड कलाकारत्वेनानुबन्धितकलाकारोऽस्ति। यत्र वेणुवादनस्य प्रस्तुतिः अनेकधा सञ्जाता। वेणुवादनस्य स्वतन्त्रप्रस्तुतिः प्रयागे, वाराणस्यामुज्जयिन्यामनेकवारं सञ्जाता।
    अनेन विश्वविद्यालयानुदानयोगतः फरवरी 2009 ख्रीष्टाब्दात् 2012 ख्रीष्टाब्दं यावत् एकां बृहत्शोधपरियोजनां स्वीकृत्य पूरितवान्। यस्य शीर्षकं  शुक्लयजुर्वेद संहिताओं में क्रियापदविवेकइति आसीत्। विविधेषु अन्ताराष्ट्रियराष्ट्रियसम्मेलनेषु शोधपत्राणां प्रस्तुतिः या सञ्जाता तेषां संख्या शताधिका वर्तते। विविधासु अन्ताराष्ट्रियराष्ट्रिपत्रिकासु अभिनन्दनग्रन्थेषु स्मृतिग्रन्थेषु च प्रकाशितानां शोधपत्राणां संख्या नवनवतिः (99) वर्तते। शुक्लमहाभागस्य निर्देशने चत्वारः छात्राः स्वीयं शोधकार्यं पूरितवन्तः। सप्त छात्राः साम्प्रतं शोधरताः सन्ति । विविधेषु विश्वविद्यालयेषु  महाविद्यालयेषु चैतस्य वैदुष्यपूर्णव्याख्यानानि  सञ्जातानि।
2005 ख्रीष्टाब्दे हिंदीसाहित्यसम्मेलनं  प्रयागः संस्कृतमहामहोपाधिना एनमलङ्कृतवान्।
शुक्लमहाभागेन प्राप्तानां सम्मानां पुरस्काराणां च विवरणमित्थमस्ति- 
     1. मध्यप्रदेश संस्कृत अकादमी, भोपाल ‘‘व्याकरणशास्त्रार्थ  पुरस्कार 1984 2. अन्तर्विद्यापीठीय युवसमारोहः राष्ट्रीय संस्कृत संस्थान, नई दिल्ली ‘‘न्यायशास्त्र भाषण पुरस्कार’’ 1985 3. ‘‘वेद पण्डित पुरस्कार’’ उत्तर प्रदेश संस्कृत संस्थान, लखनऊ, 1998 4. ‘‘ज्योतिष महर्षि सम्मान’’ भारतीय ज्योतिष परिषद, कानपुर, 1997 5. ‘‘संस्कृतमहोपाध्याय सम्मान’’ हिन्दी साहित्य सम्मेलन, प्रयाग, 2005 6. ‘‘संस्कृत साहित्य पुरस्कार’’ उत्तरप्रदेश संस्कृत संस्थान द्वारा पुरस्कार 2005 7. ‘‘पतञ्जलिपुरस्कार’’ मध्यप्रदेश संस्कृत बोर्ड, 2006 8. ‘‘शिक्षा प्रवीण सम्मान’’ रामायण मेला समिति, प्रयाग, 2007 9. वैदिक भूषण सम्मान- पद्मेष इंस्टीट्यूट आॅफ वैदिक सांइसेज, कानपुर  10. ज्योतिष सम्राट्,-विश्व कल्याण एवं ज्योतिष शोध संस्थान 11. महामुनिपाणिनिपुरस्कार,-अखिल भारतीय विद्वत् परिषद्, वाराणसी। 

हरिनारायण तिवारी      

आचार्यो हरिनारायणतिवारी 01.04.1957 तमे ईसवीये संवत्सरे गोपालगञ्जजनपदावयवके बिहारप्रान्ते सरयूपारीणब्राह्मणकुले जनिं लब्धवान्। अस्य पिता स्व. रामछवीलातिवारी पाणिनीयव्याकरणस्य महान् पण्डित आसीदिति बाल्ये तस्माद् विद्यामधीतवान्। परं व्याकरणमधिजिगांसमानः श्रीवैकुण्ठनाथपवहारिसंस्कृमहाविद्यालयं वैकुण्ठपुरस्थम् 1976तमे ईसवीयसंवत्सरे प्रविश्य तत्रत्येभ्योऽध्यापकेभ्यः कौमुद्यादिग्रन्था´्श्रमक्रमाभ्यां सम्यगधीत्य सर्वविद्याराजधानीं काशीं 1980 तमे संवत्सरेऽध्येतुकामः प्रविश्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालये तत्रस्थेभ्योऽध्यापकेभ्यः, विशेषतः आचार्यरामप्रसादत्रिपाठिवर्येभ्यः शेखरान्तान् सर्वान् ग्रन्थानधीत्यानुसन्धातंृ काशीहिन्दूविश्वविद्यालयं 1987तमे ईसवीयसंवत्सरे प्रविष्टः। तत्र आचार्यसीतारामशास्त्रिचरणानां निर्देशने शब्दब्रह्मपरब्रह्मणोस्तादात्म्यसमीक्षणम्इति विषयमालम्ब्ध्य शोधकार्यं प्रपूर्ये 1990तमे वर्षे ततः शोधोपाधिं लब्धवान्। पश्चाच्च विद्यावाचस्पतिःइत्युपाधिना भारतीयदर्शनेषु शब्दार्थयोरवधारणाइति विषये उपाधिं ग्रहीतुकामः श्रीकामेश्वरसिंहदरभडं्गासंस्कृतविश्वविद्यालयमावेदितवान्। तत्र वाचस्पतिशर्मत्रिपाठिनां निर्देशने शोधकार्यं प्रपूर्य 2001 तमे वर्षे विद्यावाचस्पतिरित्यपाधिं लब्धवान्। शोधकर्मणि रत एवांशकालिकाध्यापकरूपेण काशीहिन्दूविश्वविद्यालयेऽध्यापनया नियुक्तः। पश्चाच्च विश्वविद्यालयानुदानायोगसंस्थया रिसर्च-एशोसियेट इति पदे नियोजितः सन्नध्यापनकर्मणि संयोजितः। तत्राध्यापनां कुर्वन्नेवायं राष्ट्रियसंस्कृतसंस्थानेन 1994तमे ईसवीयऽक्टूबरमासे प्रवक्तृपदे सेवया नियोजितः। जनवरीमासे 2002तमे वर्षे रीडरपदे, जनवरीमासे 2009तमे वर्षे आचार्यपदे चायं नियोजितः। जम्मूनगरे तत्रैव कार्यरतो विद्यते।
व्याकरणशास्त्रे ह्नसमानधियः छात्रान् विलोक्य सम्पूर्णे पाञ्जले महाभाष्ये नवभिर्भागैः, सम्पूर्णे लघुशब्देन्दुशेखरेऽष्टभिर्भागैः, सम्पूर्णे वाक्यपदीये प´्चभिर्भागैः, सम्पूर्णे व्युत्पत्तिवादे एकेन खण्डेन च हिन्दीटीकां विरच्य ग्रन्थानुपकृतवान्। महाभाष्ये कार्यं कुर्वन्नयमनुभूतवान्, यद् यानि वात्र्तिकानि सन्ति, तानि सर्वाण्यपि अष्टाध्यां गतार्थानीति वात्तिकानामष्टाध्यां गतार्थता, इति ग्रन्थः सद्य एव विदुषां पुरः प्रस्तौति। आचार्यशङ्कररचितस्य मठाम्नायोपनिषदः प्रकाशनमपि कृतवान्। ऋग्वेदस्य शाङ्ख्यायनशाखा लुप्ता आसीत्। राजस्थानस्याऽलवरनामके स्थाने एकस्मिन् ब्राह्मणकुले सा लब्धा, महर्षिसान्दीपनि- वेदाविद्याप्रतिष्ठानेन उज्जयिनीस्थेन चतुर्भिर्भागैः प्रकाशिता च। तत्र काचिट्टीका नास्ति, अतः तत्र ग्रन्थे नारायणभाष्यं सम्प्रति करोति।
संस्थाने सेवां विदधत् पञ्चभ्यश्छात्रेभ्यः शोधोपाधिं स्वमार्गदर्शने दापितवान्। तत्र-तत्र परिसरे याः पत्रिकाः प्रकाश्यन्ते, तासां पत्रिकाणां सम्पादनमपि काले-काले कृतवानिति संस्कृतसेवाऽस्य भवति।

राजेश्वरप्रसाद मिश्र

डा. राजेश्वरप्रसादमिश्रस्य जन्म एकोनषष्ट्युत्तरैकोनविंशति-शततमस्याप्रैलमासस्य त्रिंशत् तारिकायामुत्तरप्रदेशस्थे प्रयागजनपदान्तर्गते बरहाकलानाम्नि ग्रामे ब्राह्मणान्वयेऽभवत्। अस्य पिता ऋषिराम मिश्रः माता धनपति देवी चास्ताम्। प्रारम्भिकी शिक्षा प्रारम्भिकविद्यालयादजायत्।
ततः उच्चतर-माध्यामिक-विद्यालयात् हाईस्कूलपरीक्षां प्रथमश्रेण्यामुत्तीर्य इण्टरमीडिएट परीक्षां प्रथमऽश्रेयां सी.ए.वी. कालेजप्रयागात् उत्तीर्णों जातः।
इलाहाबादविश्वविद्यालयात्स्नातको भूत्वा गृहसौख्यं विहाय, हिमाचलीयविश्वविद्यालयात् संस्कृतविषयमाश्रित्य एम.ए., एम.फिल्. परीक्षे स्वर्णपदकेन सह अधिगत।
शिमलाविश्वविद्यालयदेव माननीयानां प्रो. मानसिंह महोदयानां मार्गनिर्देशने षडशीत्यधिकैकोनविंशति-शततमे वर्षे पी-एच.डी. इत्युपाधिः प्राप्तः। निरन्तरं संस्कृत सम्पोषयन् अलीगढ़मुस्लिमविश्वविद्यालये प्राध्यापको भूत्वा संस्कृतसमृद्धयर्थं सन्नद्धः। अनेन बहूनि ग्रन्थरत्नानि प्रणीतानि। प्रतिष्ठिताभिः संस्थाभिः बहुधा पुरस्कृतोऽयं जनः।
प्रो. मिश्रमहाभागेन द्वादशपत्रिकासु सदस्यरुपेण कार्य निर्वहति।
शताधिकासु राष्ट्रियान्ताराष्ट्रियसङ्गोष्ठीषु शोधपत्राणि प्रस्तुतानि। सततं हि संस्कृतसेवादृढ़वती भूत्वा संस्कृतसेवायामेवालीगढ़मुस्लिम विश्वविद्यालये संस्कृतविभागे आचार्यपदमलङ्करोति।

हरिदत्त शर्मा     

प्रख्यातः संस्कृत-विद्वान् कविः हरिदत्त शर्मा सम्प्रति इलाहाबाद-विश्वविद्यालये संस्कृत-विभागे आचार्यपदे प्रतिष्ठितः, तथा पूर्वं स विभागाध्यक्षरुपेण कार्यं कृतवान्। सः 1948 ईसवीयवर्षे अष्टमे जनवरीदिने उत्तर प्रदेशराज्यस्य हाथरसनगरे जन्मे लेभे। तस्य माता श्रीमती हरप्यारीदेवी तथा पिता श्रीलहरीशङ्करः आस्ताम्। प्रो. शर्मणः आरम्भिकी शिक्षा हाथरसनगरे उच्चशिक्षा च इलाहाबाद-विश्वविद्यालये जाता। अत्र एम.ए. संस्कृत-परीक्षायां प्रथमस्थानस्थितत्वात् सः षट्स्वर्ण-रजतपदकानि लब्धवान्। अत्रैव आचार्याद्याप्रसादमिश्राणां निर्देशने काव्यशास्त्रीय-भावेषु शोधकार्यं विद्याय तेन डी.फिल. इत्युपाधिर्लब्धः।
1972 वर्षे तस्य नियुक्तिः इलाहाबाद-विश्वविद्यालये जाता, अत्रैव च तेन प्रवक्तुः, उपाचार्यस्य, आचार्यस्य च रुपेण कार्यं कृतम्।
आचार्यहरिदत्तेन रचनात्मके आलोचनात्मके च क्षेत्रे द्वादशग्रन्थानां लेखनं कृतम्, प्रतिष्ठितपत्रिकासुचास्य 60 संख्याकाः शोध-निबन्धाः प्रकाशिताः। तेषु प्रमुखा ग्रन्थाः सन्ति-संस्कृत-काव्यशास्त्रीय भावों का मनोवैज्ञानिक अध्ययन, गीतकन्दलिका, त्रिपथगा, उत्कलिका, बालगीताली, आक्रन्दनम् लसल्लतिका, नवेक्षिंका,  महोदयस्यास्य  पञ्च-मौलिक-रचनासु उत्तरप्रदेश-संस्कृत-संस्थानेन एकस्यां रचनायां दिल्ली-संस्कृताकादम्या, एकस्याञ्च रचनायां लसल्लतिकायां साहित्याकादम्या प्रतिष्ठिताः पुरस्काराः प्रदत्ताः।
आचार्यस्य निर्देशने अद्यावधि 28 शोध-कार्याणि सम्पन्नानि। प्रो. शर्मणा पञ्चदशदेशानां शैक्षणिक-सांस्कृतिक-यात्रा कृता, यथा जर्मनी-फ्रांस-नीदरलैण्ड्स-आस्ट्रिया-मलेशिया-इण्डोनेशिया-इटली-मारिशस अमेरिका स्काटलैण्ड-जापानदि देशानाम्। थाइलैण्डे स अभ्यागत आचार्यरुपेण त्रिवर्षाणि यावत् कार्यरतः आसीत्।
तेन 22 अन्ताराष्ट्रिय- सम्मेलनेषु, 18 राष्ट्रिय सम्मेलनेषु, 80 सङ्गोष्ठीषु च भामोगृहीतः। तस्य रचना नैकविश्वविद्यालयानां पाठ्यक्रमेषु निर्धारिताः तासु शोधकार्याणि च प्रचलन्ति। प्रो. शर्ममहोदयाः ए.आई.ओ.सी. संस्थाया उपाध्यक्षः, ‘आई.ए.एस.एस. संस्थायाश्च परामर्शदातृ समितिसदस्यः सञ्जातः। 

आशारानी राय  

उत्तर प्रदेशस्य कानपुर महानगरे त्रिपञ्चाशत्तमे वर्षे अक्टूबर मासस्य अष्टादश दिनांके धार्मिक परिवारे जनिं लब्ध्वा, तत्रैव माध्यमिकीम् उच्चशिक्षां च संप्राप्य वर्षद्वयं यावत् कानपुरस्य ज्वालादेवी महाविद्यालय अध्यापनं कृत्वा तदनन्तरं षड्-अशीतितम वर्षपर्यन्तं अर्मापुर महाविद्यालये संस्कृत प्राध्यापिका पदं विभूषितवती।
तदनन्तरम् उच्चतरशिक्षासेवा आयोगः भवतीं प्राचार्या रूपेण चितवान्। तदनु भवत्या कानपुरविद्या मन्दिर-महिला-स्नातकोत्तर- महाविद्यालयस्य प्राचार्यपदं विभूषितम्। भवत्याः कुशलनिर्देशने, प्रशासनिक योग्यतया दूरदृष्ट्या च राष्ट्रीयमूल्यांकन एवं प्रत्यायनपरिषदा महाविद्यालयोऽयं श्रेण्या सम्मानितोऽभूत्।
सर्वोच्च डी. लिट. शोधोपाधिना विभूषितायाः भवत्याः निर्देशने 88 छात्राः स्नातकोत्तरकक्षायां लघुशोध प्रबन्धान् तथा च 19 छात्राः पीएच.डी. शोधोपाध्यर्थं-शोध प्रबन्धान्् प्रस्तूय गौरवं प्राप्तवत्यः। डा.0 आशारानी राय महोदया 25 अन्तर्राष्ट्रीय, 50 राष्ट्रीय सम्मेलनेषु शोधपत्राणि पठितवती। तत्रैव च अनेकानां सत्राणामाध्यक्षमपि अलंकृृतवती। वत्र्तमानसमये मान्या महोदया छत्रपति-शाहूजी महाराज विश्वविद्यालयस्य वरिष्ठतमा प्राचार्या वत्र्तते। संस्कृतस्य संयोजिका, बह््वीनां च समीतीनां सदस्या वत्र्तते। देशस्यान्येषु विश्वविद्यालयेष्वपि तत्र भवती सदस्यरूपेण विषयविषेज्ञरूपेण च कार्यं करोति।
चतुर्मुखीप्रतिभासंपन्नेयं विदुषी छात्राणां विकासाय तासु च संस्कृतं प्रति अनुरागोत्पादयितुं विविधान्् प्रकल्पान्् निर्माति। महाविद्यालये विश्वविद्यालय-अनुदान-आयोग-सहाय्येन डा.0 राय महोदया व्यावसायिकसंस्कृत पाठ्यक्रमं प्रचालयति। अस्मिन् पाठ््यक्रमे छात्राणाम् अतिशयां रूचिं विलोक्य सर्वे आनन्दिताः भवन्ति।
समाजे प्रचलितानां नानाविधानां कुरीतिनाम् उन्मूलनाय भवत्याः कृतानि कार्याणि भृशमभिनन्द्यन्ते सामाजिकैः जनैः। पौरोहित्यकर्मणि डा.0 आशारानी अतीव विदुषी वत्र्तते। असौ षोडशसंस्काराणां प्रचारे, प्रसारे स्वयं च संस्कारसम्पादने महतीं रूचिं योग्यतामपि च धारयति। दूरदर्शने आकाशवाण्यां च भवत्याः अनेकाः संस्कृत-हिन्दी वार्ताः समसामयिकेषु विषयेषु प्रसारिताः भवन्ति। नारीणां शिक्षासमुन्नयने सर्वदा संलग्ने आर्य समाजस्य शीर्ष संगठने भवत्याः प्रमुखं स्थानं वत्र्तते।
प्राचार्या डा.0 आशारानी स्वव्यक्तित्वेन, कत्र्तृृत्वेन संस्कृतसेवया च सर्वान्् सामाजिकान्् प्रसादयति। इयं संस्कृतसेविनी विदुषी स्वामी आत्म बोध सरस्वती कर्मवीर पुरस्कारः, हरिद्वार 2011, वेद-विदुषी पुरस्कारः हरिद्वार 2010, शन्नोदेवी राष्ट्रीय वेद-विदुषी पुरस्कारः भुवनेश्वर (उड़ीसा) 2007, कानपुर गौरव पुरस्कारः, कानपुर 2007, अमर उजाला प्रतिभासम्मानः, कानपुर 2005 आदिभिः पुरस्कारैः पुरस्कृता विविधाभिः संस्थाभिः।

अर्कनाथ चौधरी

आचार्यः अर्कनाथचैधरीमहोदयः अगस्तमासस्य 15 दिनाङ्के 1956 ईस्वीवर्षे बिहारराज्यस्थ-मधुबनीमण्डलान्तर्गते रुद्रपुरग्रामे शाण्डिल्यगोत्रीयब्राह्मणपरिवारे जनिं लेभे। अस्य पितुः नाम पं. उमेशचैधरी मातुश्च नाम चन्द्रकलादेवी आसीत्।
आचार्यः चैधरी म.म. बच्चाझामहोदयस्थापित-शारदाभवनसंस्कृतपाठशालायां न्यायव्याकरणवेदान्तादिशास्त्रनिष्णातेन पित्रा सह निवसन् पितुरेव न्यायव्याकरणशास्त्रमधीत्य नव्यव्याकरणे शास्त्रिपरीक्षां समुत्तीर्णवान्। लालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य नियमितछात्रत्वेन शिक्षमाणः वाराणसेयसंस्कृतविश्वविद्यालयात् नव्यव्याकरणाचार्यपरीक्षां समुदतरत्। राष्ट्रियसंस्कृतसंस्थानतः शिक्षाशास्त्रि-विद्यावारिधि इति उपाधिद्वयमवाप्तवान्। सेवाकाले एव राजस्थानविश्वविद्यालयतः एम.ए.(दर्शन)परीक्षां प्रथमश्रेण्या उत्तीर्य स्वर्णपदकं प्राप्तवान्।
आचार्यचैधरीमहोदयस्य सेवाक्षेत्राणि पंजाब-हिमाचल-झारखण्ड-आन्ध्रप्रदेश-राजस्थान-महाराष्ट्र राज्यानि आसन्, साम्प्रतम् एते लखनऊनगरे कार्यं कुर्वन्ति। राष्ट्रियसंस्कृतसंस्थानस्य सेवायां तिरुपतौ 1982 वर्षे प्राविशत् 1983 ईस्वीयवर्षतः राष्ट्रियसंस्कृतसंस्थानान्तर्गते जयपुरस्थे केन्द्रीयसंस्कृतविद्यापीठे सहायकाचार्य-सहाचार्य- आचार्य-प्राचार्यपदेषु क्रमशः 2011 ईस्वीपर्यन्तं सेवामकार्षीत्। तदनन्तरं राष्ट्रियसंस्कृतसंस्थानस्य मुम्बईपरिसरे प्राचार्यपदस्य कार्यसम्पादनात्परं सम्प्रति राष्ट्रियसंस्कृतसंस्थानस्य लखनऊपरिसरे प्राचार्यत्वेन कार्यं कुर्वाणः वर्तते।
आचार्यचैधरीमहोदयेन लघुसिद्धान्तकौमुदी-मध्यसिद्धान्तकौमुदी-सिद्धान्तकौमुदी- तर्कसंग्रह-तर्कभाषा-मेघदूत-निरुक्त- ललितासहस्रनामादीनां 21 ग्रन्थानां स्वकृत हिन्दी-संस्कृतव्याख्यया सह सम्पादनं कृतम्। आचार्यचैधरीमहोदयः राजस्थानमाध्यमिकशिक्षापरिषदः पाठ्यग्रन्थाय द्वौ मौलिकग्रन्थौ अपि अरचयत्। राष्ट्रियसंस्कृतसंस्थानस्य दूरस्थशिक्षायै नूतनपाठलेखनेन सह महाभाष्यस्य परमलघुमंजूषायाश्च सम्पादनमकरोत्। राष्ट्रियसंस्कृतसंस्थानस्य अनौपचारिकसंस्कृतशिक्षणाय नीतिशतकस्य हिन्दी-संस्कृत-आंग्लभाषायामनुवादं कृतवान् यस्य प्रकाशनमपि संस्थानेन कृतम्। 1985 ईस्वीतः निरन्तरं एन.सी.ई.आर.टी. प्रकाशितसंस्कृतपाठ्यपुस्तकानां निर्माणे योगदानम् अयच्छत्।         
आचार्यचैधरीमहोदयानां 37 शोधलेखाः प्रकाशिताः सन्ति। 23 पत्र-पत्रिकाणां सम्पादनमपि आचार्येण कृतम्। आचार्यचैधरीमहोदयस्य मार्गनिर्देशने अधुना यावत् 19 शोधच्छात्राः विद्यावारिधिःइत्युपाधिमलभन्त। आचार्यचैधरीमहोदयस्य बहवः शिष्याः उच्चशिक्षासंस्थानेषु आचार्यादिपदेषु तथा च कतिपये छात्राः राज्यस्य केन्द्रस्य च प्राशासनिकसेवायां कार्यरतास्सन्ति।
आचार्यचैधरीमहोदयस्य नेतृत्वे अनेकानि राष्ट्रियसंस्कृतसम्मेलनानि कार्यशालाश्च आयोजितानि। अनौपचारिकसंस्कृतशिक्षणस्य कृते सप्तराज्यानां त्रिशताधिकाः प्रशिक्षणार्थिनः प्रशिक्षणं प्राप्तवन्तः ये संस्कृतस्य प्रचाराय प्रसाराय च राष्ट्रे कार्यं कुर्वन्तः सन्ति।
आचार्यचैधरीमहोदयाः बहूनां विश्वविद्यालयानां नानासमितेः सदस्यत्वेन कार्यं कुर्वन्तः सन्ति, तथा च चैधरीमहोदयस्य उत्कृष्टसंस्कृतसेवाम् अक्षिसात्कृत्य षोडशसंस्थाभिः एते सम्मानिताः, येषु राजस्थानसंस्कृत-अकादम्या राजस्थानसर्वकारेण च प्रदत्तं विशिष्टविद्वत्सम्माननं महत्त्वपूर्णं वर्ततेे।

रेखा शुक्ला       

डा. रेखा शुक्लामहोदया स्व. श्रीमती विश्वदेवीशुक्लामहोदयायाः स्व. डा. गिरिजादयालुशुक्लमहोदयस्य पुत्री अस्ति।  बाल्यकालादेव मेधाविनी प्रथमकक्षातः स्नातकपर्यन्तं प्रथमस्थानं प्राप्तवती विद्यालये महाविद्यालये च। तदनन्तरं लक्ष्मणपुरविश्वविद्यालयात् परास्नातके साहित्यवर्गे विभागे च प्रथमस्थानं प्राप्य स्वर्णपदकं लब्धवती। ततश्च तत्रैव शोधकार्यं कुर्वती शोधोपाधिं चाग्रहीत्।
   1983 तमे वर्षे जुहारी देवी गर्ल्स पी.जी. महाविद्यालयकर्णपुरे प्रवक्तापदे अस्याः नियुक्तिः सञ्जाता। अद्यपर्यन्तं तस्मिन्नेव महाविद्यालये एसो. प्रोफेसर अध्यक्षपद´चाल्.कृत्य अध्यापने निरता सञ्जाता। अस्याः निर्देशन चतुर्दश-छात्राः शोधापाधिं प्राप्तवन्त्यः वर्तमाने छात्राद्वयं शोधकार्यं करोति अस्याः निर्देशने।
विद्यार्थिकालादेव कविता कथा निबन्धलेखने अस्याः रुचिः आसीत्।
   अद्यापि सरसकवितालेखने ग्रन्थप्रणयने चास्याः महत प्रवृत्तिः अस्ति। अनया कविसम्मेलनेषु बहुधा कवितापाठाः पठिताः नैकाः ग्रन्थाश्च विरचिताः। अस्याः भामिनीविलासःइति ग्रन्थः उञ्प्र. संस्कृतसंस्थानेन पुरस्कृतः अस्ति। 2014 तमे वर्षे अस्याः संस्कृत साहित्य के इतिहास लेखन की परम्पराइत्यस्य ग्रन्थस्य लोकार्पणं माननीय महामहिम श्री अजीजकुरैशीमहोदयैः उत्तराखण्डस्य राज्यपालभवने कृतम्। अस्याः पञ्शदधिकाः लेखाः विविधासु शोधपत्रिकासु प्रकाशिताः। उत्तरप्रदेश संस्कृतसंस्थानस्य संस्कृत-अनुसन्धानपत्रिका परिशीलनम्’ ‘गवेषणा’ ‘प्रभातञ्चशोधपत्रिका, ‘गीतापीयूष’ ‘प्रगतिइत्यादीनां पत्रिकाणां श्रीदयाशंकर शास्त्रिणः स्मृतिग्रन्थः आन्वीक्षिकीचेत्यस्य सम्पादनं कृतमनया।
विश्वविद्यालय-अनुदान-आयोग प्रदत्तलघुशोधपरियोजनायां एषा शोधकार्यमकरोत््। दशम पञ्चदशविश्वसंस्कृतसम्मेलनयोः चतुर्दशान्ताराष्ट्रियसंस्कृतसम्मेलनेषु अशीतिःराष्ट्रियसम्मेलनेषु अनया शोधपत्राणि प्रस्तुतानि। विद्वद्गोष्ठ्यां नैकानि व्याख्यानानि च प्रस्तुतानि। विविधसम्मेलनेषु तकनीकिसत्रेषु एषा संयोजनम् आध्यक्ष्यं चाकरोत्। विविधासङ्गोष्ठीषु मुख्यातिथिविशिष्टातिथिरुपे एषा विभूषिता। महाविद्यालये काले-काले राष्ट्रियसंस्कृतसङ्गोष्ठीविद्वद्गोष्ठी-कविगोष्ठीकार्यशालानामायोजनं क्रियतेऽनया। अस्याः वार्ताः लखनऊ आकाशवाणी दूरदर्शनाभ्यां प्रसारिताः। एषा कर्णपुरविश्वविद्यालयस्य पाठ्यक्रमसमित्याः सदस्या आसीत्। विविधाभिः संस्थाभि सम्मानिता एषा।

सुधाकर मालवीय          

डा. सुधाकरमालवीयः काशीहिन्दूविश्वविद्यालयस्य साहित्यविभागाध्यक्षचराणां प्रो. रामकुबेर मालवीयानां द्वितीय आत्मजोऽस्ति। असौ 1.1.1944 तमे वर्षे प्रयागे सिराथूकड़ा ग्रामे जनिं लब्धवान्। 1972 तमे ई0-वर्षतः आरम्भ्य 2004 तमवर्षपर्यन्तम् असौ महाभागः काशीहिन्दूविश्वविद्यालये संस्कृतसेवां कृतवान्।
1969 तमे ईसवीये वर्षे काशीहिन्दूविश्वविद्यालयतः संस्कृतविषये स्नातकोत्तरोपाधिं लब्ध्वा रामनगरे वर्षद्वयं यावत् शोधसहायकरूपेण पुराणसम्पादनाकार्यं कृतवान्। 1972 तमे वर्षे काशीहिन्दूविश्वविद्यालयस्य कलासङ्कायान्तर्गते संस्कृतविभागे त्मेमंतबी पद प्दकपंद चीपसवेवचील ंदक टमकंेण् नाम्न्यां स्थायिशोधयोजनायां विविधसंस्कृतग्रन्थानां सम्पादनं कुर्वन् शोधसहायकस्य स्थायिपदेऽधिष्ठितः 2004 तमवर्षपर्यन्तं स्नातकस्नातकोत्तरच्छात्रान् वेदं साहित्यं च अध्यापयत्।
1976 तमे वर्षे डा. मालवीयस्य कर्णभारइत्यख्यः ग्रन्थः उत्तरप्रदेशसंस्कृतसंस्थानतः पुरस्कृतः। 1978 तमे वर्षे ऐतरेयब्राह्मणम्सायणभाष्यम् इत्यस्य हिन्दी-अनुवादः ऐदम्प्राथम्येन उत्तरप्रदेशसंस्कृतसंस्थानेन पुरस्कृतः। ऋग्वेद के प्रथमाष्टकइत्याख्यः पद्यशोऽअनुवादः 1992 तमे वर्षे, निम्बार्कसम्प्रदायानुयायिनः केशवकाश्मीरक इत्याख्यस्य विदुषः क्रमदीपिकाइत्याख्या अनूदितः सम्पादितश्च ग्रन्थः 1993 तमे वर्षे, रुद्रयामल (उत्तरतन्त्रम्) इत्याख्यस्य ग्रन्थस्यानुवादपरो ग्रन्थश्च 1999 तमे वर्षे उत्तरप्रदेशसंस्कृतसंस्थानेन सम्मानितः।
पाञ्चरात्रागमविषयिणी अप्राप्तसंहितामधिकृत्य उल्लेखनीयं कार्यं कृतवतोऽस्य विदुषः अन्येऽनूदिताः ग्रन्थाः अहिर्बुध्न्यसंहिता, सात्त्वतसंहिता, शाण्डिल्यसंहिता, लक्ष्मीतन्त्रञ्चेति सन्ति।
आगमरहस्यम्’’ शारदातिललकम्सौन्दर्यलहरीसमरांगणसूत्रधारः’ ‘शक्तिसङ्गमतन्त्रम्’ ‘प्रपञ्चसारःइत्यादि ग्रन्थानामनुवादकः डा. सुधाकरमालवीयः काश्याः लब्धप्रतिष्ठः विद्वांन् अस्ति निरन्तरञ्चेदानीमपि सरस्वतीसाधनायां निरतोऽस्ति।

श्रीकिशोर मिश्र  

    वाराणस्याः वेदाध्ययनपरम्परायां त्रिपुरुषविद्यायाः प्रतिनिधिर्विद्वान् डा.0 श्रीकिशोरमिश्रवर्यः 1959 ईशवीये वर्षे लब्धजनिः पितामहादाचार्यभगवत्प्रसादमिश्रवर्यात् वेदादिविविधशास्त्रज्ञाग्रगण्यस्य पितुराचार्य-गोपालचन्द्रमिश्रस्य सकाशाच्चाधीतविद्यः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतः अथर्ववेदाचार्यपरीक्षायां काशीहिन्दूविश्वविद्यालयतः संस्कृतविषये एम00 परीक्षाया´्च सर्वोच्चस्थानमधिगत्य स्वर्णपदकादिभिः पुरस्कृतः।
   सम्पूर्णानन्दसंस्कृतविश्वविद्यालयतो वेदविषये विद्यावारिध्युपाधिं पुनश्च धर्मशास्त्रस्य विशिष्टानुशीलनद्वारा कलकत्ताविश्वविद्यालयतश्च पीएच0डी0 उपाधिं सम्प्राप्य पौरस्त्य-परिचात्त्योभय- विधानुशीलनस्य निदर्शनं प्रस्तुतमेतैर्मिश्रवर्यैः। सम्पूर्णानन्दसंस्कृतविश्वविद्यालये 1981 वर्षतोऽध्यापनयात्रामारभ्य प्रो0 मिश्रवर्याः सम्प्रति काशीहिन्दूविश्वविद्यालयीये संस्कृतविभागे प्रोफेसरपदं विभूषयन्ति।
   संस्कृतविभागाध्यक्षरूपेण भारतशासनस्य मानवसंसाधनविकासमन्त्रालयान्तर्गतस्य महर्षिसान्दीपनि -राष्ट्रिवेदविद्याप्रतिष्ठानस्य सचिवरूपेण च पदाधिष्ठिताः सन्तो देशे विदेशेषु च विविधशैक्षणिकसमिति-सम्मेलनसत्रेषु अध्यक्षसंयोजकसदस्यादिरूपेण संस्कृतसेवां कृतवन्तः। विंशत्यधिकैः भारतीयवैदेशिकशोच्छात्रैरेषां निर्देशने पी-एच0डी0 शोधोपाधिर्लब्धः।
    उत्तरप्रदेशसंस्कृतसंस्थान-राजस्थानसंस्कृतअकादमी-दिल्लीसंस्कृतअकादमी-प्रभृतिसंस्थाभिर्बहुशः पुरस्कृतानां श्रीकिशोरमिश्रवर्याणां शताधिकाः शोधपत्र-संस्कृतकविता-निबन्धादयः पंचदशग्रन्थाश्च प्रकाशिताः सन्ति। गंगेश्वरवेदवेदांगसम्मान- हारीतपुरस्कार-शंकरपुुरस्कार-खानखानापुरस्कार-करपात्रस्वामिपुरस्कार-मण्डनमिश्र-पुरस्कार-ब्रह्मकीर्ति-सम्मानादिभिः सभाजिताः श्रीकिशोरमिश्रवर्याः संस्कृतविद्यायाः सारस्वतसाधनायाः अनन्यव्रतिनो राजन्ते।

विजय कुमार कर्ण          

   संस्कृतसमर्चकस्य डा. विजयकुमारकर्णमहोदयस्य जन्म ख्रीष्टाब्दे अष्टषष्ठ्योत्तरेकोनविंशतितमे वर्षे एकस्मिन्  सनातनहिन्दूपरिवारे अभवत्। बाल्यकालदेव गृहस्य परिवेशकारणात् बहुमुखिप्रतिभासम्पन्नस्य कर्णमहोदयस्य अभिरुचिः सामाजिके कार्ये उत्पन्ना। युववस्थायां तेषां सम्पर्कः राष्ट्रियविचारप्रसाररतैः संघटनैः सह स´्जातः। सामाजिककार्येषु आत्मनं संयोज्य बहुविधानि जनजागरणप्रदर्शनकार्यणि कृत्वा ते आत्मतोषमनुभूतवन्तः।
तदानीं काले त्रिभाषासूत्रात् संस्कृतस्य स्थानच्युतिविरोधरूपप्रचलिते जनान्दोलने महती भूमिकां निर्व्यूढवान्। काशीहिन्दूविश्वविद्यालये उच्चशिक्षाप्राप्तिकाले लोकभाषाप्रचारसमितिविश्वसंस्कृतप्रतिष्ठानं संस्कृतभारत्यादिभि आयोजतेषु विविधेषु कार्यक्रमेष, भागं गृहीत्वा संस्कृतस्य वैश्विकावश्यकतां वर्तमानस्थितिञ्च महोदयः अवगतवान्।
तदाप्रभृतिरेव संस्कृतभाषायाः प्रचाराय प्रसाराय कटिबद्धाः कर्णमहोदयाः आदौ स्वयं पश्चात् परिवारस्य कृते अपि संस्कृतसम्भाषणव्रतमाचरितवन्तः। सम्प्रति अपि संस्कृतज्ञैः साकमनिवार्यतया व्यवहारे संस्कृतभाषाव्रतपालयन्तः कर्णवर्याः सर्वसामान्येभ्यः भाषाशिक्षणं कुर्वन्ति।
    प्रायः चत्वारिंशत्सहस्राधिकेभ्य जनेभ्यः संस्कृतसम्भाषणप्रशिक्षणमादाय महोदयाः स्वान्तः सुखमनुभवन्ति।
संस्कृतसम्भाषणप्रशिक्षणकलानिपुणाः इमे महाभागाः लखनऊविश्वविद्यालयान्तर्गते विद्यान्तहिन्दूपरास्नातकमहाविद्यालये संस्कृतविभागे सहाचार्यपदमलङ्कुर्वन्ति। विविधसर्वकारीयसामाजिकसंस्थाभिः तत्वावधाने स्वतन्त्रया च शताधिकविशिष्टसंस्कृतसम्भाषणवर्गेषु प्रशिक्षणं प्रदाय लब्धख्यातयः कर्णमहोदयाः प्रायः सम्पूर्णेऽपि भारतवर्षे प्रवासं कृत्वा संस्कृतभाषायाः पुनरुज्जीवनाय कार्यं कृतवन्तः।
    डा. कर्णमहोदयानां द्वादशधिका ग्रन्थाः प्रकाशिताः सन्ति। अल्पवयसि एव एतावतानां पुस्तकानां लेखनं सम्पादनञ्च च तेषां सारस्वतसाधनामेव द्योतयति। सेवाचेतनाशैक्षिकसंकल्पपरिशीलनप्रभृतिशोधपत्रिकाणां सम्पादकस्य अस्य महोदयस्य योगदानं पत्रकारिताक्षेत्रेऽपि अस्ति। सदैव एते अवध की मिशाल’, ‘गुलदस्ता ए लखनऊगोमती तुम बहती रहना इत्याख्याधारावाहिनीत्रये सम्वादलेखनं प्रस्तुतिञ्च कृत्वा लोकजीवने भारतीयसंस्कृत्याः प्रसारं कृतवन्तः।

संस्कृतक्षेत्र विशिष्टमवदानं संवीक्ष्य बहुभिः संस्थाभिः अकादमिभिश्च पूर्वं सभाजिताः डा. कर्णमहोदयाः।

रामसुमेर यादव 

डा. रामसुमेरयादवस्य जन्म उत्तरप्रदेशस्य फतेहपुरजनपदान्तर्गते बरौहां नाम्नि ग्रामे यदुकुलेऽभवत्। अस्य पिता श्रीमान् सूरजदीनयादवः माता च श्रीमती कैलासा देवी स्तः। प्राथमिकी शिक्षा ग्रामादेवाभवत्। सम्पूर्णानन्दसंस्कृतविश्वविद्यालयात् स्नातकं, परास्नातकं परीक्षां प्रथमश्रेण्यामुत्तीर्य गर्वर्नमेण्ट कांस्ट्रेक्टिव ट्रेनिंग कालेज लखनऊतः एल0टी0परीक्षां प्रथमश्रेण्यामुत्तीर्य श्री गंगानाथ झा राष्ट्रियसंस्कृतविद्यापीठम् प्रयागतः पीएच0डी0 उपाधिमवाप्तवान्। अध्ययनानन्तरं केन्द्रीयविद्यालय चण्डीगढ़ संभागात् चयनितो भूत्वा केन्द्रीयविद्यालय सं0 4 भटिण्डा कैण्ट (पंजाब) इत्यस्मिन् विद्यालये संस्कृतशिक्षकपदे निष्ठयाध्यापनमकरोत्।
लोकसेवा आयोग उ0प्र0 इलाहाबादतः चयनितो भूत्वा गर्वनमेण्टपोस्टग्रेजुएटकाॅलेज उत्तरकाशी (उत्तराखण्ड) मध्ये संस्कृतप्राध्यापकपदे कार्यमकरोत्। तत्रैव हेमवतीनन्दनबहुगुणाविश्वविद्यालये दर्शनवर्गमनुसृत्य एम00 संस्कृतपरीक्षायां प्रथमश्रेणी प्राप्ता। फैजाबादविश्वविद्यालये एम00 (हिन्दी) अपि प्रथमश्रेण्यां उत्तीर्णः।
सम्प्रति लखनऊ विश्वविद्यालयस्य संस्कृतविभागे प्रोफेसरपदे संलग्नो भूत्वा संस्कृतचर्यां चरति। हिन्दीसाहित्यसम्मेलनप्रयागात् साहित्यमहोपाध्यायस्य मानदोपाधिः प्राप्तः।
रचनासु राघवाभ्युदयम्, वज्रमणिः, इन्दिरासौरभम्, कबीरवचनामृतम् प्रमुखाः सन्ति। सम्प्रति सुभाषितरत्न
भाण्डागारस्यानुवादकार्यं प्रचलति। अद्यावधि शोधपत्राप्यशीतिसंख्याकानि विविधपत्रपत्रिकाषु प्रकाशितानि तथा सप्ततिसंख्याकानि शोधपत्र-वाचनानि सम्पादितानि।

राधेश्याम चतुर्वेदी         

   आचार्यराधेश्यामचतुर्वेदिमहाभागा आजमगढमण्डलान्तर्गतगोबरहानाम्नि ग्रामे सन् 1940 ईस्वीये वर्षे जन्म लेभिरे। एतेषां पितुर्नाम पं. मुरलीधर चतुर्वेदी मातुश्च नाम श्रीमती सकला देवी आसीत्। बाल्यादेव कुशाग्रबुद्धय इमे स्वीयां प्रारम्भिकीं शिक्षां स्वीय एव जनपदे प्राप्तवन्तः। सन् 1960 तमे वर्षे उच्चशिक्षा प्राप्तुमिमे वाराणसीं प्रतस्थुः। तत्र सम्पूर्णानन्दसंस्कृतविश्वविद्यालयात् शास्त्री-व्याकरणाचार्य-परीक्षामुत्तीर्य काशीहिन्दूविश्वविद्यालयतः संस्कृत विषये स्नातक-स्नातकोत्तरपरीक्षे प्रथमश्रेण्यामुत्तीर्य कलासंकायीयछात्राणां प्रथमं स्थानं प्राप्नुयुः । परिणामतः श्रीमधुसूदनानन्दसरस्वती-काशीहिन्दूविश्वविद्यालयेति स्वर्णपदकद्वयेन सम्मानिता एते तस्मादेवविश्वविद्यालयात् 1971 वर्षे डा.क्टर आॅफ फिलासाॅफी उपाधि प्राप्तवन्तः। तस्मिन्नेव वर्षे काशीहिन्दूविश्वविद्यालये अध्यापकत्वेन नियुक्ता एते सन् 2002 ईस्वीये वर्षे ततः सेवानिवृत्ताः सञ्जाताः। तदनन्तरं 2005 वर्षतः 2007 पर्यन्तं महात्मागान्ध्ीकाशीविद्यपीठस्थसंस्कृतविभागे शास्त्रचूड़ामणिविद्वान् इति पदे ससम्मानं नियुक्ता एते अध्यापनादिकार्यं कृतवन्तः । 
 2008 ईस्वीये वर्षे देवसंस्कृतिविश्वविद्यालयस्य कुलाधिपति डा. प्रणवपण्ड्यामहाभागैः सबहुमानं संस्कृतवेदविभागाध्यक्षपदे इमेरिटसप्रोफेसर रूपेण प्रतिष्ठापिताः सन्तः विश्वविद्यालयस्य सेवाकार्यमहर्निशं कुर्वन्त आसते। स्वकीयाध्यापकजीवने विभिन्नविषयानाधृत्य शोधकार्यं कारयद्भिरेभः त्रयोविंशतिः छात्राः पी-एच्.डी. उपाधियोग्या निर्मिताः। 
  आयुर्वेद-वेदान्त-मीमांसा-तन्त्रादिविषयानाधृत्य चतुर्दशग्रन्थाः प्रकाशिता एभिर्विपश्चिद्भिः। प्रकाशितेष्वेतेषु ग्रन्थेषु शिवदृष्टिः, गायत्रीमहातन्त्रम्, तन्त्रालोकः, महाकालसंहितादिग्रन्थाः  उत्तरप्रदेशसंस्कृतसंस्थानेन पुरस्कृताः। पञ्चषाः ग्रन्थाः मुद्रणालये प्रकाशनार्थं प्रेषिताः प्रकाशनप्रक्रियां निर्वहन्तः सन्ति। भारतवर्षस्य विभिन्नासु संस्कृतपत्रिकासु एतेषां विभिन्नविषयकाः शोधलेखाः प्रकाशिताः। सुदूरोत्तरस्थकश्मीरादारभ्य दक्षिणस्यां पाण्डिचेरीप्रभृतिषु नानास्थानेषु काले-काले समायोजितासु सङ्गोष्ठीषु भागं गृहणन्त इमे स्वकीयप्रतिभापाटवं विदुषां समक्षे प्रस्तुतवन्तः। अनेकेषु विश्वविद्यालयेषु अध्ययनसमितेः, विद्यापरिषदः, परीक्षासमितेः सदस्यरूपेण स्वकीयमुत्तरदायित्वं निर्वहन्त एते महानुभावाः पञ्चसप्ततिवर्षीयेऽपि वयसि संस्कृतवाङ्मयस्य सेवामहर्निशं कुर्वन्तो विराजन्ते। 

गायत्री शुक्ला   

   विदितसर्वशास्त्रद्वादशदर्शननिष्णाता सुरभारतीसाधिका गुरुवर्यैः बहुषः आशीर्वादप्राप्ता डा.0 गायत्रीशुक्ला महोदया उत्तरप्रदेशस्य प्रतापगढ़जनपदे कुण्डाक्षेत्रे परानूपुर इति ग्रामे आषाढ़मासस्य कृष्णचतुथ्र्यां तिथौ 2016 विक्रमाब्दे श्रीवेदस्वरूपपाण्डेयस्य पाणिग्रहीता पत्नी महामेधावीकृतभूरिपरिश्रमा श्रीमती रामवतीदेव्याः कुक्षौ संजाता।
शुक्लामहोदया प्रारम्भिकशिक्षा शङ्करकन्या पाठशालापरानूपुरे सम्प्राप्य स्वभ्रातुः सहप्रयागम् आगत्य ईश्वरशरणबालिका विद्यालय इलाहाबादतः माध्यमिकीशिक्षां प्राप्तवती। तस्याः उच्चशिक्षा इलाहाबाद विश्वविद्यालयेऽभवत्। तत्र 19850 वर्षे एम00 संस्कृत इति परीक्षायां सर्वोच्चस्थाने बहूनि स्वर्णपदकानि रजतपदकानि च सम्प्राप्तवती। विश्वविद्यालय अनुदानआयोगेन आयोजितां जे0आर0एफ0 इति परीक्षा 1986 ख्रिस्ताब्दे उत्तीर्य छात्रवृत्तिं लब्ध्वा मीमांसादर्शनविषये शोधकार्यं कृत्वा 1993 ख्रिस्ताब्दे प्रयाग विश्वविद्यालयतः 16/12/2001 पर्यन्तम् इलाहाबाद विश्वविद्यालयसंस्कृतविभागे रिसर्च एसोशिएट रूपेण अध्ययनाध्यपनं कृतवती। 18 दिसम्बर 2001 ख्रिस्ताब्दतः अद्यावधिपर्यन्तं बैसवारा महाविद्यालये सेवाकार्ये रताः अस्ति। तत्र महोदया अध्यापनं श्शोधनिर्देशनं इत्यादिकार्यं कृतवती क्रमशः प्रवक्तृ एसोसिएट प्रोफेसर विभागाध्यक्षादि पदं धारितवती च। तत्र पत्रिकासम्पादनं शैक्षिक व्याख्यानस्यायोजनमपि विहितवती। श्शुक्ला महोदयायाः सम्प्रकाशिता सम्पादिता व्याख्यायिता ग्रन्थाः सप्तसंख्याकाः सन्ति। तत्र मीमांसापरिभाषा, कारिकावली, मीमांसालोक आदि ग्रन्थानि सुप्रथितानि सुपुरस्कृतानि विलसन्ति।
   शुक्ला महोदया राष्ट्रियेषु अन्तराष्ट्रियेषु, प्रादेशिकस्तरेषु च समायोजितासु गोष्ठीषु कार्यशालासु बहुषः भागं गृहीतवती, शोधपत्र- वाचनं च कृतवती।
   संस्कृतप्रचारप्रसाराय राष्ट्रियसंस्कृतसंस्थानस्य साहाय्येन अनौपचारिकप्रशिक्षणकेन्द्रं संस्कृतभारती साहाय्येन सरलसंस्कृत- सम्भाषणशिविराणां संयोजनं च कृतवती। नुक्कड-नाटक, नाट्य-वादविवाद-प्रतियोगिता इत्यादि विधिना शोभायात्रा द्वारा च जने जने संस्कृते अनुरागजागरणं प्रति कृतसंकल्पा महोदया अहर्निशं संस्कृतभाषायाः सेवाकार्ये प्रतिबद्धपरिकरा अस्ति।